०८३

सर्वाष् टीकाः ...{Loading}...

०१ चतूरात्रः पञ्चरात्रः षड्रात्रश्

विश्वास-प्रस्तुतिः ...{Loading}...

चतूरात्रः पञ्चरात्रः
षड्रात्रश् चोभयः सह ।
षोडशी सप्तरात्रश् च-
-उच्छिष्टाज् जज्ञिरे सर्वे
ये यज्ञा अमृते हिताः ॥

०२ प्रतिहारो निधनं विश्वजिच्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतिहारो निधनं
विश्वजिच् चाभिजिच् च यः ।
साह्नातिरात्रा उच्छिष्टे
द्वादशाहो ऽपि तन् मयि ॥

०३ सूनृता सन्नतिः क्षेमः

विश्वास-प्रस्तुतिः ...{Loading}...

सूनृता संनतिः क्षेमः +++(Bhatt. saṃnati(ḥ))+++
स्वधोर्जामृतं सहः । +++(Bhatt. saha)+++
उच्छिष्टे सर्वे प्रत्यञ्चः
कामाः कामेन तृप्यन्तु ॥

०४ नव भूमीः समुद्राश्

विश्वास-प्रस्तुतिः ...{Loading}...

नव भूमीः समुद्राश् च-
-उच्छिष्टे ऽधि श्रिता दिवः ।
आ सूर्यो भात्य् उच्छिष्टे
अहोरात्रे च तन् मयि ॥

०५ उपहव्यं विषूवन्तं ये

विश्वास-प्रस्तुतिः ...{Loading}...

उपहव्यं विषूवन्तं
ये च यज्ञा गुहा हिताः ।
बिभर्ति भर्ता विश्वस्य-
-उच्छिष्टो जनितुः पिता ॥

०६ पिता जनितुर् उच्छिष्टो

विश्वास-प्रस्तुतिः ...{Loading}...

पिता जनितुर् उच्छिष्टो
असोः पौत्रः पितामहः ।
स ख्येति विश्वस्येशानो
वृषा भूम्याम् अतिघ्न्यः ॥

०७ ऋतं सत्यं तपो

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतं सत्यं तपो दीक्षा +++(Bhatt. dīkṣāḥ)+++
श्रमो धर्मश् च कर्म च ।
भूतं भविष्यद् उच्छिष्टे
वीर्यं लक्ष्मीर् बलं बले ॥

०८ समृद्धिर् ओज आकुतिः

विश्वास-प्रस्तुतिः ...{Loading}...

समृद्धिर् ओज आकुतिः
क्षत्रं राष्ट्रं षड् उर्व्यः ।
संवत्सरो ऽध्य् उच्छिष्ट
इडा प्रैषा ग्रहा हविः ॥

०९ चतुर्होतार आप्रियश् चतुर्मास्यानि

विश्वास-प्रस्तुतिः ...{Loading}...

चतुर्होतार आप्रियश्
चतुर्मास्यानि निविदः ।
उच्छिष्टे यज्ञा होत्राश् च
पशुबन्धास् तद् इष्टयः ॥

१० अर्धमासाश् च मासाश्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्धमासाश् च मासाश् च-
-आर्तव ऋतुभिः सह ।
उच्छिष्टे घोषिणीर् आपः
स्तनयित्नुः श्रुतिर् मही ॥ +++(Bhatt. ścyutir)+++