०८०

सर्वाष् टीकाः ...{Loading}...

०१ ये कुकुन्धाः कुकूरभाः

विश्वास-प्रस्तुतिः ...{Loading}...

ये कुकुन्धाः कुकूरभाः
कृत्तीर् दूर्शानि बिभ्रति । +++(Bhatt. kṛtyair duruśāni)+++
क्लीबा इव प्रनृत्यन्तो
घोषां ये कुर्वते वने
तान् इतो नाशयामसि ॥

०२ येषां पश्चात् प्रपदे

विश्वास-प्रस्तुतिः ...{Loading}...

येषां पश्चात् प्रपदे
पुरः पार्ष्णी पुरो मुखम् ।
खलजाः शकधूमजा
उरुण्डा ये च मट्मटाः
कुम्भमुष्का अयाशवः ।
तान् अस्या ब्रह्मणस्पते
प्रतीबोधेन नाशय ॥

०३ ये सूर्यं न

विश्वास-प्रस्तुतिः ...{Loading}...

ये सूर्यं न तितिक्षन्त +++(thus ŚS; Bhatt. nititikṣanti (not -kṣanty))+++
आतपन्तम् अमुं दिवः ।
अरायान् बस्तवासिनो
दुर्गन्धींल् लोहितास्यान् +++(Bhatt. durgandhīlohitāsyāṃ)+++
मककान् नाशयामसि ॥ +++(Bhatt. vakakāṃ)+++

०४ ये सूर्यात् परिसर्पन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये सूर्यात् परिसर्पन्ति
स्नुषेव श्वशुराद् अधि ।
बजश् च तेषां पिङ्गश् च
हृदये ऽधि नि विध्यताम् ॥

०५ य आत्मानम् अतिमात्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

य आत्मानम् अतिमात्रम्
अंश आधाय बिभ्रति । +++(Bhatt. aṃsādāya)+++
स्त्रीणां श्रोणिप्रतोदिन
इन्द्र रक्षांसि नाशय ॥

०६ ये पूर्वे वध्वो

विश्वास-प्रस्तुतिः ...{Loading}...

ये पूर्वे वध्वो यन्ति
हस्ते शृङ्गाणि बिभ्रतः ।
आपाकेस्थान् प्रहासिन +++(Bhatt. āpākestāṃ prahāsima)+++
स्तम्बे ये कुर्वते ज्योतिस्
तान् इतो नाशयामसि ॥

०७ पर्यस्ताक्षाः प्रचङ्कशा स्त्रैणाः

विश्वास-प्रस्तुतिः ...{Loading}...

पर्यस्ताक्षाः प्रचङ्कशा
स्त्रैणाः सन्तु पण्डगाः ।
अव भेषज पातय
य इमां संविवृत्सत्य्
अपतिः स्वपतीं स्त्रियम् ॥ +++(Bhatt. apati)+++

०८ उद्धर्षिणं मुनिकेशं जम्भयन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्धर्षिणं मुनिकेशं
जम्भयन्तं मरीमृशम् ।
उपेषन्तम् उदुम्बलं +++(Bhatt. upeśantam)+++
तुण्डेनम् उत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या +++(Bhatt. pravudhya)+++
स्थालीं गौर् इव स्यन्दना ॥

०९ यस् ते गर्भम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते गर्भं प्रतिमृशाज्
जातं वा मारयाति ते ।
पिङ्गस् तम् उग्रधन्वा
कृणोतु हृदयाविधम् ॥

१० ये अम्नो जातान्

विश्वास-प्रस्तुतिः ...{Loading}...

ये अम्नो जातान् मारयन्ति +++(Bhatt. amlo)+++
सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वान्
अभ्रं वात इवाजतु ॥