०७९

सर्वाष् टीकाः ...{Loading}...

०१ यौ ते मातोन्ममार्ज

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते मातोन्ममार्ज
जातायाः पतिवेदनौ ।
दुर्णामा तत्र मा गृधद्
अलिंश उत वत्सपः ॥

०२ पलालानुपलालौ शर्कुं कोकम्

विश्वास-प्रस्तुतिः ...{Loading}...

पलालानुपलालौ शर्कुं
कोकं मलिम्रुचं पलीजकम् । +++(Bhatt. malimṛcaṃ)+++
आश्लेषं वव्रिवाससम्
ऋक्षग्रीवं प्रमीलिनं
मुष्कयोर् अप हन्मसि ॥

०३ मा सं वृतो

विश्वास-प्रस्तुतिः ...{Loading}...

मा सं वृतो मोप सृप
ऊरू माव सृपो ऽन्तरा ।
कृणोम्य् अस्यै भेषजं
बजं दुर्णामचातनम् ॥

०४ दुर्णामा च सुनामा

विश्वास-प्रस्तुतिः ...{Loading}...

दुर्णामा च सुनामा च-
-उभौ संवृतम् इच्छतः । +++(Bhatt. icchata(ḥ))+++
अरायम् अप हन्मसि
सुनामा स्त्रैणम् इच्छताम् ॥

०५ यः कृष्णः केश्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृष्णः केश्य् असुर
स्तम्बजा उत तण्डिकः ।
अरायान् अस्या भंससो
मुष्कयोर् अप हन्मसि ॥

०६ अनुजिघ्रं प्रमृशन्तं क्रव्यादम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनुजिघ्रं प्रमृशन्तं
क्रव्यादम् उत रेरिहम् ।
अरायं श्वकिष्किणं +++(Bhatt. chvakiṣkiṇaṃ)+++
बजः पिङ्गो अनीनशत् ॥

०७ यस् त्वा सुप्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा सुप्तां त्सरति +++(Bhatt. carati)+++
यश् च दिप्सति जाग्रतीम् । +++(Bhatt. jāgratīḥ)+++
छायाम् इव प्र तान् सूर्यः +++(Bhatt. tāṃ)+++
परिक्रामम् अनीनशत् ॥

०८ यस् त्वा सुप्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा सुप्तां निपद्यते
भ्राता भूत्वा पितेव च ।
बजस् त्वं सहताम् इतः
क्लीबरूपं तिरीटिनम् ॥

०९ यः कृणोत्य् अवतोकाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृणोत्य् अवतोकां
मृतवत्साम् इमां स्त्रियम् ।
तम् ओषधे त्वं नाशय-
-अस्याः कमलम् अञ्जिवम् ॥

१० ये शालाः परिनृत्यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये शालाः परिनृत्यन्ति
सायं गर्दभनादिनः
कुसूला ये च कुक्षिलाः
ककुभाः सरमाः सुमाः ।
तान् ओषधे त्वं गन्धेन
विषूचीनान् वि नाशय ॥