०७७

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते काम

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते काम शर्म त्रिवरूथम् उद्भिद् +++(Bhatt. udbhir)+++
ब्रह्म वर्म विततम् अनतिव्याध्यं कृतम् ।
तेन सपत्नान् परि वृङ्धि ये मम
पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु ॥

०२ अधराञ्चः प्र प्लवन्ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अधराञ्चः प्र प्लवन्तां
छिन्ना नौर् इव बन्धनात् ।
न सायकप्रणुत्तानां
पुनर् अस्ति निवर्तनम् ॥

०३ अग्निर् यव इन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् यव इन्द्रो यवः सोमो यवः ।
यवयावानो देव यावयन्त्व् अमुम्
आमुष्यायणम् अमुष्याः पुत्रं
जीवलोकान् मृतलोकं गतासुम् ॥

०४ असर्ववीरश् चरति प्रणुत्तो

विश्वास-प्रस्तुतिः ...{Loading}...

असर्ववीरश् चरति प्रणुत्तो
मित्राणां द्वेष्यः परिवर्ग्यः स्वानाम् । +++(Bhatt. pariviṣyaḥ)+++
उत पृथिव्याम् अव स्यन्ति विद्युत
उग्रो देवः प्र मृणत् सपत्नान् ॥ +++(Bhatt. pramṛṇan)+++

०५ च्युता चेयं बृहत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

च्युता चेयं बृहत्य् अच्युता च
विद्युद् बिभर्ति स्तनयित्नूंश् च सर्वान् । +++(Bhatt. bhavanti stanayitnuṃś)+++
तेषाम् आदित्यो द्रविणेन तेजसा-
-उद्यन् सपत्नान् नुदतां मे सहस्वान् ॥

०६ यथा देवा असुरान्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा देवा असुरान् प्राणुदन्त येन- +++(Bhatt. prāṇadanta)+++
-इन्द्रो दस्यून् अधमं तमो बबाधे । +++(Bhatt. tamopavādhe)+++
तथा त्वं काम मम ये सपत्नास् +++(Bhatt. sapatnāṃs)+++
तान् अस्माल् लोकात् प्र णुदस्व सर्वान् ॥

०७ येन देवा असुरान्

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा असुरान् प्राणुदन्त विश्वहा
येनेन्द्रो दस्यून् अधमं तमो बबाधे । +++(Bhatt. tamopavādhe)+++
तेन त्वं काम मम ये सपत्नास्
तान् अस्माल् लोकात् प्र णुदस्व दूरम् ॥

०८ कामो जज्ञे प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

कामो जज्ञे प्रथमो नान्यत् पुरा
नैनं देवा आपुः पितरो नोत मर्त्याः ।
ततस् त्वम् असि ज्यायान् विश्वहा महांस् +++(Bhatt. jyāyāṃ)+++
तस्मै ते काम नाम इत् कृणोमि ॥

०९ न वै वातश्

विश्वास-प्रस्तुतिः ...{Loading}...

न वै वातश् चन कामम् आप
नाग्निः सूर्यो नोत चन्द्रमाः ।
(…) ॥ +++(see 8cd)+++

१० न वा आपश्

विश्वास-प्रस्तुतिः ...{Loading}...

न वा आपश् चन कामम् आपुर्
नाहोरात्राणि विहितानि यन्ति ।
(…) ॥ ॥ +++(see 8cd)+++