०७६

सर्वाष् टीकाः ...{Loading}...

०१ सपत्नहनम् ऋषभं घृतेन

विश्वास-प्रस्तुतिः ...{Loading}...

सपत्नहनम् ऋषभं घृतेन
कामं शिक्षामि हविषाज्येन ।
नीचैः सपत्नान् मम पादय
त्वम् अभिष्टुतो महता वीर्येण ॥

०२ यन् मे मनसो

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मे मनसो न प्रियं न चक्षुषो
यन् मे हृदये नाभिनन्दति ।
तद् दुष्वप्न्यं प्रति मुञ्चामि सपत्ने
कामं तुष्टुवान् उद् अहं भिदेयम् ॥

०३ दुष्वप्न्यं काम दुरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

दुष्वप्न्यं काम दुरितं च काम-
-अप्रजस्ताम् अस्वकृताम् अवर्तिम् । +++(Bhatt. kāmāprayastām)+++
उग्र ईशानः प्रति मुञ्च तस्मिन्
यो अस्मभ्यम् अंहूरणा चिकित्सात् ॥ +++(Bhatt. aṃhuraṇā)+++

०४ सा ते काम

विश्वास-प्रस्तुतिः ...{Loading}...

सा ते काम दुहिता धेनुर् उच्यते
याम् आहुर् वाचं कवयो विराजम् ।
तया सपत्नान् परि वृङ्धि ये मम
पर्य् एनान् प्राणः प्रजाः पशवो जीवनं वृणक्तु ॥

०५ कामस्येन्द्रस्य वरुणस्य राज्ञो

विश्वास-प्रस्तुतिः ...{Loading}...

कामस्येन्द्रस्य वरुणस्य राज्ञो
विष्णोर् बलेन सवितुः सवेन ।
अग्नेर् होत्रेण प्र णुद सपत्नान्
शम्बीव नावम् उदकेषु धीरः ॥ +++(Bhatt. chambīva)+++

०६ अध्यक्षो वाजी मम

विश्वास-प्रस्तुतिः ...{Loading}...

अध्यक्षो वाजी मम काम उग्रः
कृणोतु मह्यम् असपत्नम् एव ।
विश्वे देवा मम नाथं भवन्तु
सर्वे देवा हवम् आ यन्तु म इमम् ॥

०७ इदम् आज्यं घृतवज्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् आज्यं घृतवज् जुषाणाः
कामज्येष्ठा इह मादयन्ताम् ।
कृण्वन्तु मह्यम् असपत्नम् एव ॥

०८ इन्द्राग्नी काम सरथम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी काम सरथं हि भूत्वा
नीचैः सपत्नान् मम पादयाथ ।
तेषां पन्नानाम् अधमा तमांस्य्
अग्ने वास्तून्य् अनुनिर्दहा त्वम् ॥ +++(Bhatt. vastūni nirdahā)+++

०९ जहि त्वं काम

विश्वास-प्रस्तुतिः ...{Loading}...

जहि त्वं काम मम ये सपत्ना
अन्धा तमांस्य् अव पादयैनान् । +++(Bhatt. sapatnāndhā tamāsyava pādayaināṃ)+++
अनिन्द्रिया अरसाः सन्तु सर्वे
यथा न जिवात् कतमच् चनैषाम् ॥

१० अवधीत् कामो मम

विश्वास-प्रस्तुतिः ...{Loading}...

अवधीत् कामो मम ये सपत्ना
उरुं लोकम् अकरन् मह्यम् एधतुम् ।
मह्यं नमन्तां प्रदिशश् चतस्रो
मह्यं षड् उर्वीर् घृतम् आ वहन्तु ॥ +++(Bhatt. urvī)+++