०७५

सर्वाष् टीकाः ...{Loading}...

०१ बहिर् बिलं निर्

विश्वास-प्रस्तुतिः ...{Loading}...

बहिर् बिलं निर् द्रवतु
कहावाहं तवोदरात् ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥

०२ उदरात् ते परि

विश्वास-प्रस्तुतिः ...{Loading}...

उदरात् ते परि क्लोम्नो
नाभ्या हृदयाद् अधि ।
यक्ष्मोधाम् अन्तरात्मनो
बहिर् निर् मन्त्रयामहे ॥

०३ याः सीमानं विरुजन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

याः सीमानं विरुजन्ति
मूर्धानं प्रत्यर्षणीः ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥

०४ या हृदयम् उपसर्पन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

या हृदयम् उपसर्पन्त्य्
अनुतन्वन्ति कीकसाः ।
(…) ॥ (see 3cd)

०५ याः पार्श्वे उपर्षन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

याः पार्श्वे उपर्षन्त्य्
अनुनिक्षन्ति पृष्टीः ।
(…) ॥ (see 3cd)

०६ यास् तिरश्चीर् उपर्षन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यास् तिरश्चीर् उपर्षन्त्य्
अर्षणीर् वक्षणाभ्यः ।
(…) ॥ (see 3cd)

०७ या गुदा अनुसर्पन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

या गुदा अनुसर्पन्त्य्
आन्त्राणि योपयन्ति च ।
(…) ॥ (see 3cd)

०८ या मज्ज्ञो अनुसर्पन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

या मज्ज्ञो अनुसर्पन्ति
परूंषि विरुजन्ति च ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥

०९ ये अङ्गानि मदयन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये अङ्गानि मदयन्ति
यक्ष्मासो रोपणासः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥

१० विसल्पकस्य विद्रधस्य वातीकारस्य

विश्वास-प्रस्तुतिः ...{Loading}...

विसल्पकस्य विद्रधस्य
वातीकारस्य वालजेः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥

११ पादाभ्यां ते कुल्फाभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

पादाभ्यां ते कुल्फाभ्यां
जङ्गाभ्यां जानुभ्याम् ऊरुभ्यां
श्रोणिभ्यां परि भंससः ।
अनूक्याद् अर्षणीर् उष्णिहाभ्यो
ग्रीवाभ्यः स्कन्धेभ्यश्
शीर्ष्णो रोगम् अनीनशम् ॥

१२ सं ते शीर्ष्णः

विश्वास-प्रस्तुतिः ...{Loading}...

सं ते शीर्ष्णः कपालानि
हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो
ऽङ्गरोगम् अनीनशत् ॥