०७४

सर्वाष् टीकाः ...{Loading}...

०१ शीर्षक्तिं शीर्षामयं कर्णशूलम्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षक्तिं शीर्षामयं
कर्णशूलं तृतीयकम् ।
सर्वं शीर्षण्यं ते रोगं
बहिर् निर्मन्त्रयामहे ॥

०२ कर्णाभ्यां ते कङ्कूषेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

कर्णाभ्यां ते कङ्कूषेभ्यः +++(Bhatt. kaṅkuśebhyaḥ)+++
शुक्तिवल्गं विलोहितम् ।
(…) ॥ +++(see 1cd)+++

०३ यः कृणोति प्रमोतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यः कृणोति प्रमोतम् +++(Bhatt. pramodam)+++
अन्धं कृणोति पूरुषम् ।
(…) ॥ +++(see 1cd)+++

०४ यस्य हेतोः प्रच्यवते

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य हेतोः प्रच्यवते
यक्ष्मो नासत आस्यतः ।
(…) ॥ +++(see 1cd)+++

०५ शीर्षरोगम् अङ्गरोगं विश्वाङ्गीनम्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षरोगम् अङ्गरोगं
विश्वाङ्गीनं विसल्पकम् ।
सर्वं शीर्षण्यं ते रोगं
बहिर् निर्मन्त्रयमहे ॥

०६ यस्य भीमः प्रतीकाश

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य भीमः प्रतीकाश
उद्वेपयति पूरुषम् ।
तक्मानं शीतं रूरं च
तं ते निर् मन्त्रयामहे ॥

०७ य ऊरू अनुसर्पत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

य ऊरू अनुसर्पत्य्
अथो ये ऽनु गवीनिके । +++(Bhatt. eti gavīnike)+++
बलासम् अन्तर् अङ्गेभ्यो
बहिर् निर्मन्त्रयामहे ॥

०८ यदि कामाद् अपकामाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि कामाद् अपकामाद् +++(Bhatt. yadīkāmātavakāmād)+++
धृदयाज् जायते परि ।
हृदो बलासम् अङ्गेभ्यो
बहिर् निर्मन्त्रयामहे ॥

०९ हरिमाणं ते अङ्गेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

हरिमाणं ते अङ्गेभ्यो
यक्ष्मोधाम् अन्तरात्मनः ।
यक्ष्मं ते सर्वम् अङ्गेभ्यो
बहिर् निर्मन्त्रयामहे ॥

१० आसो बलासो भवतु

विश्वास-प्रस्तुतिः ...{Loading}...

आसो बलासो भवतु
मूत्रं भवत्व् आमयत् ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥