०७३

सर्वाष् टीकाः ...{Loading}...

०१ या ते तनूर्

विश्वास-प्रस्तुतिः ...{Loading}...

या ते तनूर् अपचक्राम मृत्योर्
देवानां सख्यम् अभि जीवलोकम् ।
अप्सुचरा गह्वरेष्ठा महित्वा
तस्याम् एषः सुहुतो अस्त्व् ओदनः
सो अस्माकम् अस्तु परमे व्योमन् ॥

०२ अहेडमानाभ्य् एहि नो

विश्वास-प्रस्तुतिः ...{Loading}...

अहेडमानाभ्य् एहि नो गृहं
संकाशं भद्रे सुमना अघोराः ।
प्रति त्वा वर्षवृद्धम् एतु ॥

०३ एषा नः स्वधा

विश्वास-प्रस्तुतिः ...{Loading}...

एषा नः स्वधा नवगज् जनित्र्य्
अमृतेष्व् अमृताहुताभूत् ।
तान् नो गोपाय सदम् अप्रमादम्
आस्माकम् ऐतोर् अनु रक्ष जागृहि ॥

०४ ये नो निधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये नो निधिम् अभिदासन्त्य् एतं
प्रवाहं प्रोढं यमराज्ये ।
राजा तेषां वरुण इन्द्रियाण्य्
अभि तिष्ट्ःअतु हरसा दैव्येन ।
एतं सधस्थाः परि वो ददाम्य्
अनुख्याता यज्ञपतिर् यद् आयत् ॥

०५ य आखिदन्ति विखिदन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

य आखिदन्ति विखिदन्ति दत्तं
वि गृह्णते दक्षिणा नीयमानाः ।
तान् इन्द्रो देवो मघवाञ् छचीपतिर् (Bhatt. śacīpatir)
अग्निमेदी प्रदहन्न् एतु शक्रः ।
बृहस्पतिर् वरुणः सोम इन्द्रो
ममैव दत्तं केवलं कृण्वन्तु ॥