०७२

सर्वाष् टीकाः ...{Loading}...

०१ इदावत्सरं च परिवत्सरम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदावत्सरं च परिवत्सरं च
ब्रध्नस्य विष्टपि परमे व्योमन् ।
नाकेन नाकम् अभि सं भवौदन ॥

०२ साध्या नयन्तु मुखतो

विश्वास-प्रस्तुतिः ...{Loading}...

साध्या नयन्तु मुखतो ममैतम्
आदित्या रुद्रा वसवः सचेतसः ।
विश्वे देवा ऋतुभिः संविदाना
इमं रक्षन्तु सदम् अप्रमादम् ॥

०३ इदावत्सरं च परिवत्सरम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदावत्सरं च परिवत्सरं च
संवत्सरम् अहोरात्राणि मासः ।
सूर्यस्याग्नेश् चन्द्रमसो ऽनुभूतिं (Bhatt. ’nubhūtaṃ)
वातस्याभूतिम् अन्व् आभवौदन ॥

०४ यम् ईडते पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

यम् ईडते पितरो यं च देवाः
पुरोहितं तपसा ब्रह्मणा च ।
स्वधाम् ऊर्जम् अक्षितिम् आ जुहोमि
वाते देवे पवमाने बृहस्पतौ ॥

०५ चतुर्धेत्य् ओदनः कल्पमान

विश्वास-प्रस्तुतिः ...{Loading}...

चतुर्धेत्य् ओदनः कल्पमान
ऊर्जा देवान् स्वधा पितॄन् ।
शरीरं मनुष्यान् आशितंभवो ब्राह्मणान्
सो ऽस्माकम् अस्तु परमे व्योमन् ॥

०६ अयं पन्था ओदन

विश्वास-प्रस्तुतिः ...{Loading}...

अयं पन्था ओदन देवयानो
अनारुद्धो मृत्युना तेन याहि ।
अदब्धः स्वतो निहितः सुकृद्भिर् (Bhatt. sukṛtibhir)
ब्रह्मणा शिष्टः प्रशिषा यमस्य
सो (ऽस्माकम् अस्तु परमे व्योमन्) ॥

०७ यत्र ते गृहा

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र ते गृहा ओदन तत् परेहि
यत्रापां तद् उ गच्छन्त्व् आपः ।
यत्र योनिम् ओदनं ब्राह्मणा विदुः
सो अस्माकम् अस्तु परमे व्योमन् ॥

०८ हुतं ते वाचि

विश्वास-प्रस्तुतिः ...{Loading}...

हुतं ते वाचि हुतम् अस्तु चक्षुषि
हुतं विज्ञाने हुतम् अस्तु ते बले ।
श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते
हुतं कामे च हुतम् अस्तु ते ॥

०९ यद् वाग्नेयो यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वाग्नेयो यदि वास्यैन्द्रो
यदि मारुतो यदि वैश्वदेवः ।
यस् ते अग्निर् नृमणा नाम हृद्यस्
तस्मिन्न् एष सुहुतो अस्त्व् ओदनः
सो अस्माकम् अस्तु परमे व्योमन् ॥

१० य आविवेश नृमणा

विश्वास-प्रस्तुतिः ...{Loading}...

य आविवेश नृमणा मनुष्याꣳ
अग्नीनाम् अग्निः प्रथमो वयोधाः ।
तस्मिन्न् एषः (…) ॥