०७१

सर्वाष् टीकाः ...{Loading}...

०१ अक्रव्यादा तन्वा जातवेदो

विश्वास-प्रस्तुतिः ...{Loading}...

अक्रव्यादा तन्वा जातवेदो
या ते स्वर्गा तपसा सयोनिः ।
तयौदनम् अभिश्राम्यैतं
तया नो अग्ने महि शर्म यच्छ ॥

०२ सोमस्यांशुभिर् यतम् अद्ध्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्यांशुभिर् यतम् अद्ध्वम् (Bhatt. yata madhyam)
अदित्याः पृष्ठे सीदत ।
ये त ओदन देवयाने लोके विदुः
पात्रं दारुमयं मनुष्याः ।
तेषाम् एधि पात्रमात्रः स्वर्गः
पृथिवीं विद्म तव पात्रम् ॥

०३ एतास् त्वौदनोप यन्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

एतास् त्वौदनोप यन्त्व् आपो
घृतश्चुतः पयसा वर्धयन्तीः ।
स्तभ्नासि स्वः पृथिवीम् उत द्याम्
उतान्तरिक्षं स्वधया पूरयासि ॥

०४ यावन्तास् तण्डुलास् त

विश्वास-प्रस्तुतिः ...{Loading}...

यावन्तास् तण्डुलास् त र्तस्य विष्ठास् (Bhatt. proposes to emend stha ṛtasya)
तावन्तो यज्ञास् त र्तस्य दोहाः । (Bhatt. proposes to emend stha ṛtasya)
तावती स्वधा घृतपृष्ठो मे अस्तु-
-ऊर्जं दुहां मधुपृचं व्योमन् ॥

०५ यम् ओदनं पचामि

विश्वास-प्रस्तुतिः ...{Loading}...

यम् ओदनं पचामि श्रद्दधानः
पात्रीपूरं घृतपृष्ठं जुषाणः ।
स मे मा क्षेष्ट सदम् अश्यमानो (Bhatt. me māṃ kṣeṣṭha sadamiṣyamāṇo)
यमस्य लोके परमे व्योमन् ॥

०६ ओदनः पात्रेण सह

विश्वास-प्रस्तुतिः ...{Loading}...

ओदनः पात्रेण सह दक्षिणया
ब्राह्मणेभ्यो दत्तो अमृतत्वे दधाति ।
सूर्यस्य ध्राजीर् अनु रश्मीन् आगन् (Bhatt. raśmīna āgan)
दिवस् पृष्ठान् शकुन इव रोहन् ॥

०७ सं प्राणेन प्राणभृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं प्राणेन प्राणभृतं सृजामि
सं वीर्येण पयसाशिषा च ।
आस्तावं गच्छ सुकृतां यत्र लोकं
ते त्वा प्राश्नन्तु दक्षिणतो निषद्य ॥

०८ अग्निष्टोमेन सरथं हि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निष्टोमेन सरथं हि याह्य्
अथोक्तम् अतिरात्रं च गच्छ । (read athoktham?)
द्विरात्रमात्रस् त्र्यहं व्य् अश्नुह्य्
अथा रोह चतूरात्रं रथम् इव ॥

०९ चतूरात्रेण कल्पमानो हि

विश्वास-प्रस्तुतिः ...{Loading}...

चतूरात्रेण कल्पमानो हि याह्य्
अथ सप्तरात्रं दशरात्रं च गच्छ ।
द्वादशाहं परिभूय विश्वत
एकविंशत्या वि मृधो नुदस्व ॥

१० एकविंशत्या वि मृधो

विश्वास-प्रस्तुतिः ...{Loading}...

एकविंशत्या वि मृधो हि याह्य्
अथैकचत्वारिंशतोप याह्य् एकम् ।
त्रयस्त्रिंशतामृतो भूत्वा
त्रिमास्यम् ओदनान्व् आरभस्व ॥