सर्वाष् टीकाः ...{Loading}...
०१ य ईं चकार
विश्वास-प्रस्तुतिः ...{Loading}...
य ईं चकार न सो अस्य वेद
य ईं ददर्श हिरुग् इन् न तस्मात् ।
स मातुर् योना परिवीतो अन्तर्
बहुप्रजा निरृतिम् आ विवेश ॥
मूलम् ...{Loading}...
मूलम् (GR)
य ईं चकार न सो अस्य वेद
य ईं ददर्श हिरुग् इन् न तस्मात् ।
स मातुर् योना परिवीतो अन्तर्
बहुप्रजा निरृतिम् आ विवेश ॥
सर्वाष् टीकाः ...{Loading}...
०२ द्यौर् नः पिता
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौर् नः पिता जनिता नाभिर् अत्र
बन्धुर् नो माता पृथिवी महीयम् ।
उत्तानयोश् चम्वोर् योनिर् अन्तर्
अत्रा पिता दुहितुर् गर्भम् आधात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौर् नः पिता जनिता नाभिर् अत्र
बन्धुर् नो माता पृथिवी महीयम् ।
उत्तानयोश् चम्वोर् योनिर् अन्तर्
अत्रा पिता दुहितुर् गर्भम् आधात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ पृच्छामि त्वा परम्
विश्वास-प्रस्तुतिः ...{Loading}...
पृच्छामि त्वा परम् अन्तं पृथिव्याः
पृच्छामि त्वा भुवनस्य नाभिम् ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतो
वाचः पृच्छामि परमं व्योम ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृच्छामि त्वा परम् अन्तं पृथिव्याः
पृच्छामि त्वा भुवनस्य नाभिम् ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतो
वाचः पृच्छामि परमं व्योम ॥
सर्वाष् टीकाः ...{Loading}...
०४ इयं वेदिः परो
विश्वास-प्रस्तुतिः ...{Loading}...
इयं वेदिः परो अन्तः पृथिव्या
अयं यज्ञो भुवनस्य नाभिः ।
अयं सोमो वृष्णो अश्वस्य रेतो
ब्रह्मायां वाचः परमं व्योम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं वेदिः परो अन्तः पृथिव्या
अयं यज्ञो भुवनस्य नाभिः ।
अयं सोमो वृष्णो अश्वस्य रेतो
ब्रह्मायां वाचः परमं व्योम ॥
सर्वाष् टीकाः ...{Loading}...
०५ सप्तार्धगर्भा भुवनस्य रेतो
विश्वास-प्रस्तुतिः ...{Loading}...
सप्तार्धगर्भा भुवनस्य रेतो
विष्णोस् तिष्ठन्ति प्रदिशो विधर्मणि ।
ते धीतिभिर् मनसा ते विपश्चितः
परिभुवः परि भवन्ति विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्तार्धगर्भा भुवनस्य रेतो
विष्णोस् तिष्ठन्ति प्रदिशो विधर्मणि ।
ते धीतिभिर् मनसा ते विपश्चितः
परिभुवः परि भवन्ति विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ न वि जानामि
विश्वास-प्रस्तुतिः ...{Loading}...
न वि जानामि यद् इवेदम् अस्मि
निण्यः सन्नद्धो मनसा चरामि ।
यदा मागन् प्रथमजा ऋतस्य-
-आद् इद् वाचो अश्नुवे भागम् अस्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
न वि जानामि यद् इवेदम् अस्मि
निण्यः सन्नद्धो मनसा चरामि ।
यदा मागन् प्रथमजा ऋतस्य-
-आद् इद् वाचो अश्नुवे भागम् अस्याः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अपाङ् प्राङ् एति
विश्वास-प्रस्तुतिः ...{Loading}...
अपाङ् प्राङ् एति स्वधया गृभीतो
ऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता
न्य् अन्यं चिक्युर् न चि चिक्युर् अन्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाङ् प्राङ् एति स्वधया गृभीतो
ऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता
न्य् अन्यं चिक्युर् न चि चिक्युर् अन्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ ऋचो अक्षरे परमे
विश्वास-प्रस्तुतिः ...{Loading}...
ऋचो अक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तन् न वेद किम् ऋचा करिष्यति
य इत् तद् विदुस् त इमे सम् आसते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋचो अक्षरे परमे व्योमन्
यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तन् न वेद किम् ऋचा करिष्यति
य इत् तद् विदुस् त इमे सम् आसते ॥
सर्वाष् टीकाः ...{Loading}...
०९ ऋचः पदं मात्रया
विश्वास-प्रस्तुतिः ...{Loading}...
ऋचः पदं मात्रया कल्पयन्तो
ऽर्धर्चेन चाक्ल्̥पुर् विश्वम् एजत् ।
त्रिपाद् ब्रह्म पुरुरूपं वि चष्टे
तेन जीवन्ति प्रदिशश् चतस्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋचः पदं मात्रया कल्पयन्तो
ऽर्धर्चेन चाक्ल्̥पुर् विश्वम् एजत् ।
त्रिपाद् ब्रह्म पुरुरूपं वि चष्टे
तेन जीवन्ति प्रदिशश् चतस्रः ॥
सर्वाष् टीकाः ...{Loading}...
१० सूयवसाद् भगवती हि
विश्वास-प्रस्तुतिः ...{Loading}...
सूयवसाद् भगवती हि भूया
अथो वयं भगवन्तः स्याम ।
अद्धि तृणम् अघ्न्ये विश्वदानीं
पिब शुद्धम् उदकम् आचरन्ती ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूयवसाद् भगवती हि भूया
अथो वयं भगवन्तः स्याम ।
अद्धि तृणम् अघ्न्ये विश्वदानीं
पिब शुद्धम् उदकम् आचरन्ती ॥
सर्वाष् टीकाः ...{Loading}...
११ गौरीर् मिमाय सलिलानि
विश्वास-प्रस्तुतिः ...{Loading}...
गौरीर् मिमाय सलिलानि तक्षत्य्
एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी
सहस्राक्षरा भुवनस्य पङ्क्तिस्
तस्याः समुद्रा अधि वि क्षरन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
गौरीर् मिमाय सलिलानि तक्षत्य्
एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी
सहस्राक्षरा भुवनस्य पङ्क्तिस्
तस्याः समुद्रा अधि वि क्षरन्ति ॥
सर्वाष् टीकाः ...{Loading}...
१२ अथापाद् एति प्रथमा
विश्वास-प्रस्तुतिः ...{Loading}...
अथापाद् एति प्रथमा पद्वतीनां
कस् तद् वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्य् आ चिद् अस्य
ऋतं पिपर्त्य् अनृतं नि पाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अथापाद् एति प्रथमा पद्वतीनां
कस् तद् वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्य् आ चिद् अस्य
ऋतं पिपर्त्य् अनृतं नि पाति ॥
सर्वाष् टीकाः ...{Loading}...
१३ कृष्णं नियानं हरयः
विश्वास-प्रस्तुतिः ...{Loading}...
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
ता आववृत्रन्त् सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥+++(Bhatt. aduḥ)+++
मूलम् ...{Loading}...
मूलम् (GR)
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
ता आववृत्रन्त् सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवीं व्य् ऊदुः ॥+++(Bhatt. aduḥ)+++