सर्वाष् टीकाः ...{Loading}...
०१ द्वादशारं नहि तज्
विश्वास-प्रस्तुतिः ...{Loading}...
द्वादशारं नहि तज् जराय
वर्वर्ति चक्रं परि द्याम् ऋतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र
सप्त शतानि विंशतिश् च तस्थुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्वादशारं नहि तज् जराय
वर्वर्ति चक्रं परि द्याम् ऋतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र
सप्त शतानि विंशतिश् च तस्थुः ॥
सर्वाष् टीकाः ...{Loading}...
०२ पञ्चपादं पितरं द्वादशाकृतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरि विचक्षणं
सप्तचक्रे षडर आहुर् अर्पितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरि विचक्षणं
सप्तचक्रे षडर आहुर् अर्पितम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ पञ्चारे चक्रे परिवर्तमाने
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्चारे चक्रे परिवर्तमाने
तस्मिन्न् आ तस्थुर् भुवनानि विश्वा ।
तस्य नाक्षस् तप्यते भूरिभारः
सनाद् एव न छिद्यते सनाभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्चारे चक्रे परिवर्तमाने
तस्मिन्न् आ तस्थुर् भुवनानि विश्वा ।
तस्य नाक्षस् तप्यते भूरिभारः
सनाद् एव न छिद्यते सनाभिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ सनेमि चक्रम् अजरम्
विश्वास-प्रस्तुतिः ...{Loading}...
सनेमि चक्रम् अजरं वि वावृत
उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्य् आवृतं
यस्मिन्न् आ विश्वा भुवनान्य् आर्पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
सनेमि चक्रम् अजरं वि वावृत
उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्य् आवृतं
यस्मिन्न् आ विश्वा भुवनान्य् आर्पिता ॥
सर्वाष् टीकाः ...{Loading}...
०५ साकञ्जानां सप्तथम् आहुर्
विश्वास-प्रस्तुतिः ...{Loading}...
साकंजानां सप्तथम् आहुर् एकजं
षड् इद् यमा ऋषयो देवजा इति ।
तेषाम् इष्टानि विहितानि धामशः
स्थात्रे रेजन्ते विकृतानि रूपशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
साकंजानां सप्तथम् आहुर् एकजं
षड् इद् यमा ऋषयो देवजा इति ।
तेषाम् इष्टानि विहितानि धामशः
स्थात्रे रेजन्ते विकृतानि रूपशः ॥
सर्वाष् टीकाः ...{Loading}...
०६ स्त्रियः सतीस् ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्त्रियः सतीस् ताꣳ उ मे पुंस आहुः
पश्यद् अक्षण्वान् न वि चेतद् अन्धः । (Bhatt. akṣanvāṃ)
कविर् यः पुत्रः स ईम् आ चिकेत
यस् ता विजानात् स पितुष् पितासत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्त्रियः सतीस् ताꣳ उ मे पुंस आहुः
पश्यद् अक्षण्वान् न वि चेतद् अन्धः । (Bhatt. akṣanvāṃ)
कविर् यः पुत्रः स ईम् आ चिकेत
यस् ता विजानात् स पितुष् पितासत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अवः परेण पर
विश्वास-प्रस्तुतिः ...{Loading}...
अवः परेण पर एनावरेण
पदा वत्सं बिभ्रती गौर् उद् अस्थात् ।
सा कद्रीची कं स्विद् अर्धं परागात्
सा क्व स्वित् सूते नहि यूथे अस्मिन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवः परेण पर एनावरेण
पदा वत्सं बिभ्रती गौर् उद् अस्थात् ।
सा कद्रीची कं स्विद् अर्धं परागात्
सा क्व स्वित् सूते नहि यूथे अस्मिन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अवः परेण पितरम्
विश्वास-प्रस्तुतिः ...{Loading}...
अवः परेण पितरं यो अस्य-
-अनुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद् देवं
मनः कुतो अधि प्रजातम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवः परेण पितरं यो अस्य-
-अनुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद् देवं
मनः कुतो अधि प्रजातम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये अर्वाञ्चस् ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये अर्वाञ्चस् ताꣳ उ पराच आहुर्
ये पराञ्चस् ताꣳ उ अर्वाच आहुः ।
इन्द्रश् च या चक्रथुः सोम तानि
धुरा नि युक्ता रजसो वहन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अर्वाञ्चस् ताꣳ उ पराच आहुर्
ये पराञ्चस् ताꣳ उ अर्वाच आहुः ।
इन्द्रश् च या चक्रथुः सोम तानि
धुरा नि युक्ता रजसो वहन्ति ॥
सर्वाष् टीकाः ...{Loading}...
१० द्वा सुपर्णा सयुजा
विश्वास-प्रस्तुतिः ...{Loading}...
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परि षस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभि चाकशीति ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परि षस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभि चाकशीति ॥
सर्वाष् टीकाः ...{Loading}...
११ यस्मिन् वृक्षे मध्वदः
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मिन् वृक्षे मध्वदः सुपर्णा
निविशन्ते सुवते चाधि विश्वे ।
तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे
तन् नोन् नशद् यः पितरं न वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मिन् वृक्षे मध्वदः सुपर्णा
निविशन्ते सुवते चाधि विश्वे ।
तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे
तन् नोन् नशद् यः पितरं न वेद ॥
सर्वाष् टीकाः ...{Loading}...
१२ यत्रा सुपर्णा अमृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रा सुपर्णा अमृतस्य भक्षम्
अनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः
स मा धीरः पाकम् अत्रा विवेश ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रा सुपर्णा अमृतस्य भक्षम्
अनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः
स मा धीरः पाकम् अत्रा विवेश ॥