०६४

सर्वाष् टीकाः ...{Loading}...

०१ अयं मे वरण

विश्वास-प्रस्तुतिः ...{Loading}...

अयं मे वरण उरसि (Bhatt. varuṇa)
राजा देवो वनस्पतिः ।
स मे क्षत्रं च राष्ट्रं च
पशून् ओजश् च मे दधत् ॥

०२ इमं बिभर्मि वरणम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं बिभर्मि वरणम् (Bhatt. varuṇaṃ)
आयुष्माञ् छतशारदः । (āyuṣmāṃ)
स मे शत्रून् वि बाधताम्
इन्द्रो दस्यून् इवासुरान् ॥

०३ यथा वातो वनस्पतीन्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वातो वनस्पतीन्
जीर्णान् भनक्त्य् ओजसा ।
एवा सपत्नांस् त्वं भङ्धि
पूर्वाञ् जातान् उतापरान् (Bhatt. pūrvāṃ)
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)

०४ यथा वातेन प्रक्षीणा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वातेन प्रक्षीणा
वृक्षाः शेरे न्यर्पिताः ।
(एवा सपत्नांस्) त्वं सर्वान्
प्र क्षिणीहि न्यर्पय
पूर्वाञ् जातान् उतापरान्
वरणस् (त्वाभि रक्षतु) ॥ (Bhatt. varuṇas)

०५ यथा वातश् चाग्निश्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वातश् चाग्निश् च
सर्वान् प्सातो वनस्पतीन् ।
एवा सपत्नांस् त्वं प्साहि
पूर्वाञ् जातान् उतापरान्
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)

०६ तांस् त्वं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

तांस् त्वं प्र छिन्धि वरण (Bhatt. varuṇa)
पुरा दिष्टात् पुरायुषः ।
य इमं पशुषु दिप्सन्ति
ये चास्य राष्ट्रदिप्सवः ॥

०७ यथा सूर्यो अतिभाति

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यो अतिभाति
यथास्मिन् तेज आहितम् ।
एवा सपत्नांस् त्वं सर्वान्
अति भाहि श्वःश्वो
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)

०८ यथा यशः पृथिव्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा यशः पृथिव्यां
यथास्मिञ् जातवेदसि ।
एवा मे वरणो मणिः (Bhatt. varuṇo)
कीर्तिं भूतिं नि यच्छतु
तेजसा मा सम् उक्षतु
यशसा सम् अनक्तु माम् ॥

०९ यथा यशो अग्निहोत्रे

विश्वास-प्रस्तुतिः ...{Loading}...

यथा यशो अग्निहोत्रे
वषट्कारे यथा यशः ।
(…) ॥ (see 8cdef)

१० यथा यशः सोमपीथे

विश्वास-प्रस्तुतिः ...{Loading}...

यथा यशः सोमपीथे
मधुपर्के यथा यशः ।
(…) ॥ (see 8cdef)