०६३

सर्वाष् टीकाः ...{Loading}...

०१ अयं ते वरणो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं ते वरणो मणिः +++(Bhatt. varuṇo)+++
सपत्नक्षयणः कृतः ।
तेना रभस्व त्वं शत्रून्
प्र मृणीहि दुरस्यतः ॥

०२ ऐनाञ् छृणीहि प्र

विश्वास-प्रस्तुतिः ...{Loading}...

ऐनाञ् छृणीहि प्र मृणा रभस्व
मणिस् ते अस्तु पुरएता पुरस्तात् ।
अवारयन्त वरणेन देवा +++(Bhatt. varuṇena)+++
अभ्याचारम् असुराणां श्वःश्वः ॥ +++(Bhatt. svaryat)+++

०३ आ त्वारक्षद् वरणो

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वारक्षद् वरणो विश्वभेषजः +++(Bhatt. varuṇo)+++
सहस्राक्षो हरितो हिरण्ययः ।
यस् ते शत्रून् अधरान् पातयासि
पूर्वस् तान् दभ्नुहि य उ त्वा द्विषन्ति ॥

०४ अयं ते कृत्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं ते कृत्यां विततां
पौरुषेयम् अयं वधम् ।
अयं ते सर्वं पाप्मानं
वरणो वारयिष्यते ॥ +++(Bhatt. varuṇo)+++

०५ वरणो वारयाता इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

वरणो वारयाता +++(Bhatt. varuṇo)+++
इदं देवो वनस्पतिः ।
यक्ष्मः प्रविष्टो यो ऽस्मिन्
तम् उ देवा अवीवरन् ॥

०६ स्वप्नं सुप्त्वा यदि

विश्वास-प्रस्तुतिः ...{Loading}...

स्वप्नं सुप्त्वा यदि पश्यासि पापं
मृगः सृतिं यति धावाद् अजुष्टाम् । +++(Bhatt. śṛti … dhāyāyaduṣṭam)+++
परिक्षवाच् छकुनेः पापवादाद्
अयं मणिर् वरणो वारयातै ॥ +++(Bhatt. varuṇo)+++

०७ अरात्या मा निरृत्या

विश्वास-प्रस्तुतिः ...{Loading}...

अरात्या मा निरृत्या
अभिचाराद् अथो भयात् ।
मृत्योर् ओजीयसो वधात्
त्वं वरण वारय ॥ +++(Bhatt. varuṇa)+++

०८ वरणेन प्रव्यथिता भ्रातृव्या

विश्वास-प्रस्तुतिः ...{Loading}...

वरणेन प्रव्यथिता +++(Bhatt. varuṇena)+++
भ्रातृव्या मे सबन्धवः ।
असूर्तं रजो ऽप्य् अगुस् +++(Bhatt. asūrtāṃ)+++
ते यन्त्व् अधमं तमः ॥

०९ यन् मे माता

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मे माता यन् मे पिता भ्रातरो
यच् च मे स्वा यद् एनश् चकृमा वयम् ।
तस्मान् नो वारयिष्यते
ऽयं देवो वनस्पतिः ॥

१० अरिष्टो ऽहम् अरिष्टगुर्

विश्वास-प्रस्तुतिः ...{Loading}...

अरिष्टो ऽहम् अरिष्टगुर्
आयुष्मान् सर्वपूरुषः ।
तं मायं वरणो मणिः +++(Bhatt. varuṇo)+++
परि पातु दिशोदिशः ॥