०५९

सर्वाष् टीकाः ...{Loading}...

०१ केन पार्ष्णी आभृते

विश्वास-प्रस्तुतिः ...{Loading}...

केन पार्ष्णी आभृते पूरुषस्य
केन मांसं संभृतं केन गुल्फौ ।
केनाङ्गुलीः पेशिनीः केन खानि
केनोच्छृङ्खौ मध्यतः कः प्रतिष्ठाः ॥

०२ कस्मान् नु गुल्फाव्

विश्वास-प्रस्तुतिः ...{Loading}...

कस्मान् नु गुल्फाव् अधराव् अकृण्वन्न्
अष्ठीवन्ता उत्तरौ पूरुषस्य ।
निरृत्य जङ्घे नि दधुः क्व स्विज् (Bhatt. nirhṛtya)
जानुनोः सन्धी क इमौ जजान ॥

०३ चतुष्टयं युज्यते संहितान्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुष्टयं युज्यते संहितान्तं
जानुभ्याम् ऊर्ध्वं शिथिरं कबन्धम् ।
श्रोणी यद् ऊरु क उ तज् जजान (Bhatt. uru)
याभ्यां कुसिन्धं सुधृतं बभूव ॥

०४ कति देवाः कतमे

विश्वास-प्रस्तुतिः ...{Loading}...

कति देवाः कतमे त आसन्
य उरश् चिक्युर् अग्रियं पूरुषस्य ।
कति स्तनौ नि दधुः कः कफोडौ
कति स्कन्धान् कति पृष्टीर् अचिन्वन् ॥

०५ को अस्य बाहू

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्य बाहू सम् अभरद्
वीर्यं कृणवाद् इति ।
अंसौ को अस्य तद् देवः
कुसिन्ध आ दधाद् अधि ॥ (Bhatt. kasindha)

०६ मस्तिष्कम् अस्य यतमो

विश्वास-प्रस्तुतिः ...{Loading}...

मस्तिष्कम् अस्य यतमो ललाटं
कृकाटिकां प्रथमो यः कपालम् ।
चित्वा चित्यं पुरुषस्य हन्वोर् (Bhatt. hanor)
दिवं रुरोह कतमः स देवः ॥

०७ कः सप्त खानि

विश्वास-प्रस्तुतिः ...{Loading}...

कः सप्त खानि वि ततर्द शीर्ष्णि (Bhatt. śīrṣāṇi)
कर्णाव् इमाव् अक्षणी नासिके मुखम् ।
येषां पुरुत्रा विजयस्य मह्मनि (Bhatt. madmani)
चतुष्पादो द्विपादो यन्ति यामम् ॥

०८ हन्वोर् हि जिह्वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

हन्वोर् हि जिह्वाम् अदधात् पुरूचीम्
अधा महीम् अधि शिश्राय वाचम् ।
स आ वरीवर्ति महिना व्योमन्न्
अपो वसानः क उ चित् प्र वेद ॥

०९ मूर्धानम् अस्य संसीव्य

विश्वास-प्रस्तुतिः ...{Loading}...

मूर्धानम् अस्य संसीव्य-
-अथर्वा हृदयं च यत् ।
मस्तिष्काद् ऊर्ध्वं प्रैरयत्
पवमानो ऽधि शीर्ष्णः ॥

१० तद् वा अथर्वणः

विश्वास-प्रस्तुतिः ...{Loading}...

तद् वा अथर्वणः शिरो
देवकोशः समुब्जितः ।
तत् प्राणो अभि रक्षतु
श्रियम् अन्नम् अथो मनः ॥