सर्वाष् टीकाः ...{Loading}...
०१ एष वा ओदनः
विश्वास-प्रस्तुतिः ...{Loading}...
एष वा ओदनः सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठः ।
सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठो भवति य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)

०२ य एवं विदुष
विश्वास-प्रस्तुतिः ...{Loading}...
य एवं विदुष उपद्रष्टा भवत्य् उपद्रष्टा प्राणं रुणद्धि ।
न च प्राणं रुणद्ध्य् अथ सर्वस्वं जीयते ॥ (Bhatt. aca)

०३ न च सर्वस्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
न च सर्वस्वं जीयते ऽथैनम् आहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति ।
अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति ॥