०५४

सर्वाष् टीकाः ...{Loading}...

०१ तस्यौदनस्य भूमिः कुम्भी

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यौदनस्य भूमिः कुम्भी द्यौर् अपिधानं
शिरो ऽभ्रम् ऊष्मा नीहारो बृहद् आयवनं रथन्तरं दर्विः ।
दिशः पार्श्वे सीताः पर्शवः सिकता ऊबध्यं (Bhatt. siktā ubhadyaṃ)
पललम् उपस्तरणम् अहोरात्रे विक्रमणे ओदनस्य ॥

०२ वर्षं प्रोक्षणं मरुतः

विश्वास-प्रस्तुतिः ...{Loading}...

वर्षं प्रोक्षणं मरुतः पर्यैन्धत किष्करवः परिधयः ।
ऋचा कुम्भ्य् अधिधीयत आर्त्विज्येन प्रेष्यते ब्रह्मणा प्रति गृह्यते ॥ (Bhatt. adhidhīhitārtvijyena; the emendation is based on Bhatt.’s proposal)

०३ य एतस्यौदनस्यैवं महिमानम्

विश्वास-प्रस्तुतिः ...{Loading}...

य एतस्यौदनस्यैवं महिमानं विद्यात् ।
नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥

०४ यावद् दाताभिमनस्येत् तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् दाताभिमनस्येत्
तं नातिवदेत् ।
ओदनेन यज्ञवचः
सर्वे लोकाः समाप्याः ॥

०५ यस्मिन् समुद्रो द्यौर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् समुद्रो द्यौर् भूमिस्
त्रयो ऽवरपरं श्रिताः ॥