०५१

सर्वाष् टीकाः ...{Loading}...

०१ यत्रा सुहार्दः सुकृतो

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रा सुहार्दः सुकृतो मदन्ति
विहाय रोगं तन्वः स्वायाः ।
अश्लोणा अङ्गैर् अह्रुताः स्वर्गे +++(Bhatt. aśloṇāṅgairahṛtāḥ+)+++
अत्रा पश्येम पितरौ च पुत्रान् ॥ +++(Bhatt. ’trā)+++

०२ विषाणा पाशां अधि

विश्वास-प्रस्तुतिः ...{Loading}...

विषाणा पाशाँ अधि वि ष्यतु त्वद् +++(Bhatt. tvata)+++
य उत्तमा अधमा वारुणा ये ।
यद् दारुणा बध्यसे यच् च रज्ज्वा
यद् भूम्यां बध्यसे यच् च वाचा ॥

०३ उदगातां भगवती विचृतौ

विश्वास-प्रस्तुतिः ...{Loading}...

उदगातां भगवती
विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छतां
प्र यद् बद्धकमोचनम् ॥ +++(Bhatt. vaddhakamocanam)+++

०४ वि जिहीष्व लोकम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि जिहीष्व लोकं कृणु
बद्धान् मुञ्चासि बद्धकम् । +++(Bhatt. pathā)+++
योन्या इव प्रच्युतो गर्भः
पथः सर्वाँ अनु क्षया ॥

०५ तं प्रजानन् प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

तं प्रजानन् प्रति गृह्णातु विद्वान्
प्रजापतिः प्रथमजा ऋतस्य ।
अस्माभिर् दत्तं जरसः परस्ताद्
अच्छिन्नं तन्तुम् अनु सं चरेम ॥

०६ ततं तन्तुम् अन्व्

विश्वास-प्रस्तुतिः ...{Loading}...

ततं तन्तुम् अन्व् एके चरन्ति
येषां दत्तम् अयनं पित्र्येण ।
अबन्ध्व् एके ददतः प्र यच्छान्
दातुं चेच् छिक्षान् स स्वर्ग एषाम् ॥

०७ अन्वारभेथाम् अनुसंरभेथाम् एतम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्वारभेथाम् अनुसंरभेथाम्
एतं लोकं श्रद्दधानाः सचन्ते ।
यद् वां पूर्तं प्रविष्टम् अग्नौ
तस्य गुप्तये दम्पती सं श्रयेथाम् ॥

०८ देवाः पितरः पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

देवाः पितरः पितरो देवा ।
यो ऽस्मि सो ऽस्मि सो ऽयम् अस्मि ॥

०९ स पचामि स

विश्वास-प्रस्तुतिः ...{Loading}...

स पचामि स यजामि स यजते ऽस्य ।
शं म इष्टम् अस्तु शुनं शान्तं +++(Bhatt. śvamaya iṣṭam; the emend. is also Bhatt.’s)+++
शिवं कृतं तस्मान् मा यवम् ॥

१० नाके राजन् प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

नाके राजन् प्रति तिष्ठ
तत्रैतत् प्रति तिष्ठतु ।
विद्धि पूर्तस्य नो राजन्
स देव सुमना भव ॥