सर्वाष् टीकाः ...{Loading}...
०१ इहैव सन्तः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
इहैव सन्तः प्रति दध्म एतज्
जीवा जीवेभ्यो नि हराम एनत् ।
अपमित्य धान्यं यज् जघास-
-अग्निर् मा तस्माद् अनृणं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैव सन्तः प्रति दध्म एतज्
जीवा जीवेभ्यो नि हराम एनत् ।
अपमित्य धान्यं यज् जघास-
-अग्निर् मा तस्माद् अनृणं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ अनृणा अस्मिन्न् अनृणाः
विश्वास-प्रस्तुतिः ...{Loading}...
अनृणा अस्मिन्न् अनृणाः परस्मिन्
तृतीये नाके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः
सर्वान् पथो अनृणाः क्षयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनृणा अस्मिन्न् अनृणाः परस्मिन्
तृतीये नाके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः
सर्वान् पथो अनृणाः क्षयेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् धस्ताभ्यां चकृमा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् धस्ताभ्यां चकृमा किल्बिषम्
अक्षम् अक्तुम् उपलिप्समानाः ।
उग्रंपश्ये उग्रजितौ तद् अद्य-
-अप्सरसाम् अनु दत्ताम् ऋणं नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् धस्ताभ्यां चकृमा किल्बिषम्
अक्षम् अक्तुम् उपलिप्समानाः ।
उग्रंपश्ये उग्रजितौ तद् अद्य-
-अप्सरसाम् अनु दत्ताम् ऋणं नः ॥
सर्वाष् टीकाः ...{Loading}...
०४ उग्रम्पश्ये राष्ट्रभृतः किल्बिषम्
विश्वास-प्रस्तुतिः ...{Loading}...
उग्रंपश्ये राष्ट्रभृतः किल्बिषं
यद् अक्षवृत्तम् अनु दत्तं नस् तत् ।
ऋणान् नो न ऋणम् एर्त्समानो (Bhatt. ṛṇān no narṇāyurecchamāno)
यमस्य लोके अधिरज्जुर् आयत् ॥ (Bhatt. adhijarāyat)
मूलम् ...{Loading}...
मूलम् (GR)
उग्रंपश्ये राष्ट्रभृतः किल्बिषं
यद् अक्षवृत्तम् अनु दत्तं नस् तत् ।
ऋणान् नो न ऋणम् एर्त्समानो (Bhatt. ṛṇān no narṇāyurecchamāno)
यमस्य लोके अधिरज्जुर् आयत् ॥ (Bhatt. adhijarāyat)
सर्वाष् टीकाः ...{Loading}...
०५ यस्मा ऋणं यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मा ऋणं यस्य जायाम् उपैमि
यं याचमानो अभ्यैमि देवाः ।
ते वाचं वादिषुर् मोत्तरां (Bhatt. pābhiṣur; proposes pāviṣur)
मद् देवपत्नी अप्सरसाव् अधीतम् ॥ (Bhatt. madhyevapatnī)
मूलम् ...{Loading}...
मूलम् (GR)
यस्मा ऋणं यस्य जायाम् उपैमि
यं याचमानो अभ्यैमि देवाः ।
ते वाचं वादिषुर् मोत्तरां (Bhatt. pābhiṣur; proposes pāviṣur)
मद् देवपत्नी अप्सरसाव् अधीतम् ॥ (Bhatt. madhyevapatnī)
सर्वाष् टीकाः ...{Loading}...
०६ यद् अदीव्यन्न् अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अदीव्यन्न् अहम् ऋणं कृणोम्य्
अदास्यन्न् अग्न उत संगृणामि ।
वैश्वानरो अधिपा नो वसिष्ठ
उद् इन् नयाति सुकृतस्य लोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अदीव्यन्न् अहम् ऋणं कृणोम्य्
अदास्यन्न् अग्न उत संगृणामि ।
वैश्वानरो अधिपा नो वसिष्ठ
उद् इन् नयाति सुकृतस्य लोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ वैश्वानरः पावया नः
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरः पावया नः पवित्रैर्
यत् संगरम् अभिधावाम्य् आशाम् ।
अनाजानन् मनसा याचमानो
यत् तत्रैनो अप तत् सुवामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरः पावया नः पवित्रैर्
यत् संगरम् अभिधावाम्य् आशाम् ।
अनाजानन् मनसा याचमानो
यत् तत्रैनो अप तत् सुवामि ॥
सर्वाष् टीकाः ...{Loading}...
०८ वैश्वानराय प्रति वेदयाम
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानराय प्रति वेदयाम एतद्
यद् गृणं संगरो देवतासु ।
स एतान् पाशान् विचृतं प्र वेद-
-अथ पक्वेन सह सं भवेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानराय प्रति वेदयाम एतद्
यद् गृणं संगरो देवतासु ।
स एतान् पाशान् विचृतं प्र वेद-
-अथ पक्वेन सह सं भवेम ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् अन्तरिक्षं पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्तरिक्षं पृथिवीम् उत द्यां
यन् मातरं पितरं वा जिहिंसिम । (Bhatt. proposes jihiṃsa)
अग्निर् मा तस्माद् एनसो
गार्हपत्यः प्र मुञ्चतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्तरिक्षं पृथिवीम् उत द्यां
यन् मातरं पितरं वा जिहिंसिम । (Bhatt. proposes jihiṃsa)
अग्निर् मा तस्माद् एनसो
गार्हपत्यः प्र मुञ्चतु ॥
सर्वाष् टीकाः ...{Loading}...
१० भूमिर् मातादितिर् नो
विश्वास-प्रस्तुतिः ...{Loading}...
भूमिर् मातादितिर् नो जनित्रं
भ्रातान्तरिक्षम् अभिशस्त्या नः ।
द्यौर् नः पिता पित्र्याच् छं भवाति (Bhatt. pitryāt saṃ)
जामिम् ऋत्वा माव पत्सि लोकात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूमिर् मातादितिर् नो जनित्रं
भ्रातान्तरिक्षम् अभिशस्त्या नः ।
द्यौर् नः पिता पित्र्याच् छं भवाति (Bhatt. pitryāt saṃ)
जामिम् ऋत्वा माव पत्सि लोकात् ॥