०४९

सर्वाष् टीकाः ...{Loading}...

०१ यद् देवा देवहेडनम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् देवा देवहेडनं
देवासश् चकृमा वयम् ।
आदित्यास् तस्मान् नो यूयम्
ऋतस्यर्तेन मुञ्चत ॥

०२ ऋतस्यार्तेनादित्या यजत्रा मुञ्चतेह

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतस्यार्तेनादित्या
यजत्रा मुञ्चतेह नः ।
यज्ञं यद् यज्ञवाहसः
शिक्षन्त उपारिम ॥

०३ मेदस्वता यजमानाः स्रुचाज्येन

विश्वास-प्रस्तुतिः ...{Loading}...

मेदस्वता यजमानाः
स्रुचाज्येन जुह्वतः ।
अकामा विश्वे वो देवाः
शिक्षन्तो नोप शेकिम ॥

०४ यद् विद्वांसो यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् विद्वांसो यद् अविद्वांस
एनांसि चकृमा वयम् । [भत्त्। एनाय
तस्मान् न इह मुञ्चत
विश्वे देवाः सजोषसः ॥

०५ यदि जाग्रद् यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि जाग्रद् यदि स्वपन्न्
एन एनस्यो ऽकरम् । +++(Bhatt. svapannayanenasyokaram)+++
भूतं मा तस्माद् भव्यं च
द्रुपदाद् इव मुञ्चताम् ॥

०६ द्रुपदाद् इव मुमुचानः

विश्वास-प्रस्तुतिः ...{Loading}...

द्रुपदाद् इव मुमुचानः
स्विन्नः स्नात्वा मलाद् इव ।
पूतं पवित्रेणाज्यं
विश्वान् मुञ्चन्तु मैनसः ॥

०७ यद् यामं चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् यामं चक्रुर् निखनन्तो अग्रे
कार्षीवणा न विदो न विद्यया ।
वैवस्वते राजनि तज् जुहोम्य् +++(Bhatt. taṃ)+++
अधा यज्ञियं मधुमन् नो अस्तु ॥ +++(Bhatt. yajñaṃ)+++

०८ वैवस्वतः कृणवद् भेषजानि

विश्वास-प्रस्तुतिः ...{Loading}...

वैवस्वतः कृणवद् भेषजानि
मधुभागो मधुना सं सृजाति ।
मातुर् यद् एन इषितं न आगन्
यद् वा पितापराद्धो जिहीडे ॥

०९ यदीदं मातुर् यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदीदं मातुर् यदि वा पितुर् नो
भ्रातुः पुत्राद् रेषत एन आगन् । +++(Bhatt. retasa)+++
यावन्तो अस्याः पितरः सचन्ते
तेषां सर्वेषां शिवो अस्तु मन्युः ॥

१० अपमित्यम् अप्रतीतं यद्

विश्वास-प्रस्तुतिः ...{Loading}...

अपमित्यम् अप्रतीतं यद् अस्मि
यमस्य येन बलिना चरामि ।
इदं तद् अग्ने अनृणो भवामि
जीवन्न् एनः प्रति ददामि सर्वम् ॥ +++(Bhatt. ena(ḥ))+++