०४८

सर्वाष् टीकाः ...{Loading}...

०१ रोहिणी चासि सुरोहिणी

विश्वास-प्रस्तुतिः ...{Loading}...

रोहिणी चासि सुरोहिणी चासि
तस्यास् ते ऽन्नं चान्नाद्यं च (…) ॥

०२ सरा चासि सरस्वती

विश्वास-प्रस्तुतिः ...{Loading}...

सरा चासि सरस्वती चासि
तस्यास् ते ब्रह्म च क्षत्रं च (…) ॥

०३ वसुभृच् चासि वसुमती

विश्वास-प्रस्तुतिः ...{Loading}...

वसुभृच् चासि वसुमती चासि
तस्यास् ते सूनृता चेरा च (…) ॥

०४ महश् चासि महस्वती

विश्वास-प्रस्तुतिः ...{Loading}...

महश् चासि महस्वती चासि
तस्यास् ते कामश् च तृप्तिश् च (…) ॥

०५ सर्वा चासि सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वा चासि सर्वं च त इदं
तस्यास् ते विश्वं च विश्वे च देवा इति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या
बन्धेभ्यो विमदन् नयेमम् ॥