०४५

सर्वाष् टीकाः ...{Loading}...

०१ असपत्नः सपत्नहा सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

असपत्नः सपत्नहा
सपत्नान् मे अधराꣳ अकः ।
उत्तरं द्विषतस् त्वा
मणिः कृणोतु देवजाः ॥

०२ मणिं सहस्रवीर्यं ब्रह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

मणिं सहस्रवीर्यं
ब्रह्मणा तेजसा सह
प्रति मुञ्चामि ते शिवम् ।
स त्वायम् अभि रोहतु
देवैः फालमणिः सह ॥

०३ यथा बीजम् उर्वरायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा बीजम् उर्वरायां
कृष्टे फालेन रोहति ।
एवास्मिन् प्रजा पशवो
अन्नमन्नं वि रोहतु ॥

०४ एतम् इध्मं समाभृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

एतम् इध्मं समाभृतं जुषाणो
अग्ने प्रति हर्य होमम् ।
तस्मिन् विदेम सुमतिं स्वस्ति
चक्षुः प्राणं प्रजां पशून्
जातवेदसि ब्रह्मणा ॥