०४४

सर्वाष् टीकाः ...{Loading}...

०१ अन्तर्देशा अबध्नत प्रदिशस्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर्देशा अबध्नत
प्रदिशस् तम् अबध्नत ।
प्रजापतिसृष्टो मणिर्
द्विषतो मे अधराँ अकः ॥

०२ ऋतवस् तम् अबध्नत

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतवस् तम् अबध्नत-
-आर्तवास् तम् अबध्नत ।
संवत्सरस् तं बद्ध्वा
सर्वं भूतं वि राजति ॥

०३ अथर्वाणो अबध्नत आथर्वाणा

विश्वास-प्रस्तुतिः ...{Loading}...

अथर्वाणो अबध्नत-
-आथर्वाणा अबध्नत ।
अङ्गिरसस् तं बद्ध्वा +++(Bhatt. vaddhvā)+++
दस्यूनां बिबिधुः पुरः ॥ +++(Bhatt. vividhuḥ)+++

०४ तं धाता प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तं धाता प्रत्य् अमुञ्चत
स भूतान्य् अकल्पयत् ।
तेन त्वं द्विषतो जहि ॥

०५ यम् अबध्नाद् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमत्
सह गोभिर् अजाविभिर्
अन्नेन प्रजया सह ॥

०६ आगमन् मधोर् घृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । +++(see 5ab)+++
(…) आगमन् +++(see 5c; Bhatt. agaman)+++
मधोर् घृतस्य धारया
किलालेन श्रिया सह ॥

०७ यम् अबध्नाद् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमद्
ओजसा तेजसा सहसा भूत्या
द्रविणेन श्रिया सह ॥

०८ यस्य लोका इमे

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य लोका इमे त्रयः
पयो दुग्धम् उपासते ।
स त्वायम् अभि रक्षतु
मणिः श्रैष्ठ्याय मूर्धतः ॥

०९ स त्वायं शतदक्षिणो

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वायं शतदक्षिणो
मणिः श्रैष्ठ्याय जिन्वतु । +++(Bhatt. maṇi(ḥ))+++
यं देवाः पितरो मनुष्या
उपजीवन्ति सर्वदा ॥

१० यस्मै त्वा यज्ञवर्धन

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै त्वा यज्ञवर्धन
मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिण
मणे श्रैष्ठ्याय जिन्वतात् ॥