०४३

सर्वाष् टीकाः ...{Loading}...

०१ तं सोमः प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तं सोमः प्रत्य् अमुञ्चत
द्रविणाय रसाय कम् ।
सो अस्मै मह इद् दुहे
(…) ॥

०२ तं बिभ्रच् चन्द्रमा

विश्वास-प्रस्तुतिः ...{Loading}...

तं बिभ्रच् चन्द्रमा मणिम्
असुराणां पुरो ऽजयद् (Bhatt. purojayad)
दानवानां हिरण्ययीः
सो अस्मै तेज इद् दुहे
(…) ॥

०३ तं राजा वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

तं राजा वरुणो मणिं
प्रत्य् अमुञ्चत शंभुवं
सो अस्मै राज्यं दुहे
(…) ॥

०४ तं त्वष्टा प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वष्टा प्रत्य् अमुञ्चत
प्रजाभ्यो वीर्याय कं
सो अस्मै रूपम् इद् दुहे
(…) ॥

०५ तं बिभ्रत् सविता

विश्वास-प्रस्तुतिः ...{Loading}...

तं बिभ्रत् सविता मणिं
तेनेदम् अजयत् स्वः
सो अस्मै सूनृतां दुहे
(…) ॥

०६ तम् आपो बिभ्रतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

तम् आपो बिभ्रतीर् मणिं
सदा धावन्त्य् अक्षिताः
स आभ्यो अमृतं दुहे
(…) ॥

०७ तेनेमां मणिना कृषिम्

विश्वास-प्रस्तुतिः ...{Loading}...

तेनेमां मणिना कृषिम्
अश्विनाव् अभि रक्षतः
स भिषग्भ्यां पयो दुहे
(…) ॥

०८ यम् अबध्नाद् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अबध्नाद् बृहस्पतिर्
वाताय मणिम् आशवे (Bhatt. maṇināśave)
सो अस्मै वाचम् इद् दुहे
(…) ॥

०९ तं देवा बिभ्रतो

विश्वास-प्रस्तुतिः ...{Loading}...

तं देवा बिभ्रतो मणिं
सर्वाꣳल् लोकान् युधाजयन् (Bhatt. sarvāṃ)
स एभ्यो जितम् इद् दुहे
(…) ॥

१० तम् इमं देवता

विश्वास-प्रस्तुतिः ...{Loading}...

तम् इमं देवता मणिं
तुभ्यं दधतु भर्तवे
स उ ते भूतिम् इद् दुहाम् ।
भूयोभूयः श्वःश्वस्
तेन त्वं द्विषतो जहि ॥