०४२

सर्वाष् टीकाः ...{Loading}...

०१ अरातीयोर् भ्रातृव्यस्य दुर्हार्दो

विश्वास-प्रस्तुतिः ...{Loading}...

अरातीयोर् भ्रातृव्यस्य
दुर्हार्दो द्विषतः शिरः ।
प्र वृश्चामीदम् ओजसा ॥

०२ वर्म मह्यम् अयम्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्म मह्यम् अयं मणिः
फालाज् जातः करिष्यति ।
तृप्तो मन्थेन मागमद्
रसेन सह वर्चसा ॥

०३ यत् त्वा शिक्वः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा शिक्वः परावधीत्
तक्षा हस्तेन वास्या । +++(Bhatt. vāsyāḥ)+++
आपस् त्वा तस्माज् जीवलाः
पुनन्तु शुचयः शुचिम् ॥

०४ हिरण्यस्रग् अयं मणिर्

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यस्रग् अयं मणिर्
दुहानो वस्व् अक्षितम् ।
श्रद्धां यज्ञं महो दधद्
गृहे वसतु नो ऽतिथिः ॥ [भत्त्। नोतिथिः

०५ तस्मै घृतं सुराम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मै घृतं सुरां मध्व्
अन्नम् अन्नं क्षदामहे । +++(Bhatt. kṣudhāmahe)+++
स नः पितेव पुत्रेभ्यः
श्रेयःश्रेयश् चिकित्सतु
देवेभ्यो मणिर् एत्य ॥

०६ यम् अबध्नाद् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो जहि ॥

०७ तम् अग्निः प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तम् अग्निः प्रत्य् अमुञ्चत-
-आज्याय रसाय कं
सो अस्मा आज्यं दुहे ।
भूयोभूयः श्वःश्वस्
तेन त्वं द्विषतो जहि ॥

०८ यम् अबध्नाद् बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो (…) ॥ +++(see 7e)+++

०९ तम् इन्द्रः प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तम् इन्द्रः प्रत्य् अमुञ्चत-
-ओजसे वीर्याय कं
सो अस्मै बलम् इद् दुहे ।
(…) ॥

१० तं सूर्यः प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

तं सूर्यः प्रत्य् अमुञ्चत
तेनेमा अजयद् दिशः
सो अस्मै वर्च इद् दुहे ।
(…) ॥