०३९

सर्वाष् टीकाः ...{Loading}...

०१ उपमितः प्रतिमितो ऽथो

विश्वास-प्रस्तुतिः ...{Loading}...

उपमितः प्रतिमितो
ऽथो परिमितश् च याः ।
शालाया विश्ववाराया
नद्धानि वि चृतामसि ॥

०२ यत् ते नद्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते नद्धं विश्ववारे
पाशो ग्रन्थिश् च यः कृतः ।
बृहस्पतिर् इवाहं बलं
वाचा वि स्रंसयामि तत् ॥

०३ आ ययाम सम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ययाम सं बबर्ह (Bhatt. yāma saṃ vavṛha)
ग्रन्थिं चकार ते दृढम् ।
परूंषि विद्वां शस्तेव-
-इन्द्रेण वि चृतामसि ॥

०४ सन्दंशानां पलदानां परिष्वञ्जल्यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

संदंशानां पलदानां
परिष्वञ्जल्यस्य च । (Bhatt. paruṣyaṃjalyasya)
सर्वा मानस्य पत्न्या ते
नद्धानि वि चृतामसि ॥

०५ वंशानां ते नहनानि

विश्वास-प्रस्तुतिः ...{Loading}...

वंशानां ते नहनानि
प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते
नद्धानि वि चृतामसि ॥

०६ यानि ते अन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

यानि ते अन्तः शिक्यान्य्
आबेधू रण्याय कम् ।
प्र ते तानि वि चृतामसि (Bhatt. cetāni)
शिवा मानस्य पत्नि न
उद्धिता तन्वे भव ॥

०७ हविर्धानम् अग्निशालं पत्नीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

हविर्धानम् अग्निशालं
पत्नीनां सदनं सदः ।
सदो देवानाम् असि देवि शाले ॥

०८ अक्षुम् ओपशं विततम्

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षुम् ओपशं विततं
सहस्राक्षं विषूवति ।
अपिनद्धम् अभिहितं
ब्रह्मणा वि चृतामसि ॥

०९ यश् च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

यश् च त्वा प्रति गृह्णाति
येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ
जीवतां जरदष्टी ॥

१० अमुत्रैनम् आ गच्छताद्

विश्वास-प्रस्तुतिः ...{Loading}...

अमुत्रैनम् आ गच्छताद् (Bhatt. gacchatāṃ)
दृढा नद्धा परिष्कृता ।
तस्यास् ते वि चृतामस्य्
अङ्गमङ्गं परुष्परुः ॥