०३८

सर्वाष् टीकाः ...{Loading}...

०१ यत्रयत्रासि निहिता ततस्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रयत्रासि निहिता
ततस् त्वोत्थापयामसि ।
पर्णाल् लघीयसी भव ॥

०२ यदि स्थ तमसावृता

विश्वास-प्रस्तुतिः ...{Loading}...

यदि स्थ तमसावृता +++(Bhatt. tamasābhṛtā)+++
जालेनाभिहिता यूयम् । +++(Bhatt. jālenābhihatā)+++
सर्वाः संलुप्येतः कृत्याः +++(Bhatt. kṛtyā)+++
पुनः कर्त्रे प्र हिण्मसि ॥ +++(Bhatt. kṛtye)+++

०३ कृत्याकृतं मूलकृतम् अभिनिष्कारिणः

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्याकृतं मूलकृतम्
अभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच् छिषो
अमुं कृत्याकृतं जहि ॥ +++(Bhatt. chiṣomuṃ)+++

०४ यथा सूर्यस् तमसो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यस् तमसो मुच्यते परि
रात्रिं जहात्य् उषसश् च केतून् ।
एवाहं सर्वं दुर्भूतं
हस्तीव रजो दुरितं जहामि ॥