०३६

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते पितृभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते पितृभ्यो ददतो
यज्ञे वा नाम जगृहुः ।
संदेश्यात् सर्वस्मात् पापाद्
इमा मुञ्चन्तु त्वौषधीः ॥

०२ देवैनसात् पित्र्यान् नामग्राहात्

विश्वास-प्रस्तुतिः ...{Loading}...

देवैनसात् पित्र्यान् नामग्राहात्
संदेश्याद् अभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण
ब्रह्मण ऋग्भिः पयस ऋषीणाम् ॥

०३ यथा वातश् च्यावयति

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वातश् च्यावयति भूम्या
रेणुम् अन्तरिक्षाच् चाभ्रम् ।
एवास्मत् सर्वं दुर्भूतं
ब्रह्मनुत्तम् अपायति ॥ (Bhatt. brahmanuktamupāyati)

०४ अप क्राम नानदती

विश्वास-प्रस्तुतिः ...{Loading}...

अप क्राम नानदती
विनद्धा गर्दभीव ।
कर्तॄन् नक्षस्वेतो नुत्ता (Bhatt. ṛcchasveto)
ब्रह्मणा वीर्यावता ॥

०५ अयं पन्थापि नयामि

विश्वास-प्रस्तुतिः ...{Loading}...

अयं पन्थापि नयामि त्वा कृत्ये
प्रहितां प्रति त्वा प्र हिण्मः ।
तेनाभि याहि भुञ्जत्य् अनस्वतीव
वाहिनी विश्वरूपा कुरूटिनी ॥

०६ पराक् ते ज्योतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

पराक् ते ज्योतिर् अपथं ते अर्वाग्
अन्यत्रास्मद् अयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति
दुर्गा स्रोत्या मा क्षनिष्ठाः परेहि ॥

०७ वात इव वृक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

वात इव वृक्षं नि मृणीहि पादय
मा गाम् अश्वं पुरुषम् उच् छिष एषाम् ।
कर्तॄन् निवृत्येतः कृत्ये
अप्रजास्त्वाय बोधय ॥ (Bhatt. kṛtyeprajāstvāya)

०८ यां ते चक्रुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यां ते चक्रुर् बर्हिषि यां श्मशाने
कृत्यां क्षेत्रे वलगं वा निचख्नुः ।
अग्नौ वा त्वा गार्हपत्ये ऽभिचेरुः (Bhatt. vāktvā gārhapatyebhiceruḥ)
पाकं सन्तं धीरतरा अनागसं
तद् इतो नाशयामसि ॥

०९ उपाहृतम् अनुबुद्धं निखातम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपाहृतम् अनुबुद्धं निखातं
वैरं त्सार्य् अन्व् अविदाम कर्तॄन् । (Bhatt. tsāryaṃnavidāma)
तद् एतु यत आगतं तत्राश्व इव
वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥

१० स्वायसा असयः सन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

स्वायसा असयः सन्ति नो गृहे (Bhatt. svāyasāsayaḥ)
विद्म ते कृत्ये यतिधा परूंषि ॥