०३५

सर्वाष् टीकाः ...{Loading}...

०१ यां कल्पयन्ति वहतौ

विश्वास-प्रस्तुतिः ...{Loading}...

यां कल्पयन्ति वहतौ
वधूम् इव विश्वरूपां
हस्तकृतां चिकित्सवः ।
साराद् एत्व् अप नुदाम एनान् ॥

०२ शीर्षण्वतीं पयस्वतीं कर्णिनीम्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षण्वतीं पयस्वतीं
कर्णिनीं कृतां कृत्याकृता
संभृतां विश्वरूपाम् ।
प्रत्यक् प्रति प्र हिण्मसि
यश् चकार तम् ऋच्छतु ॥

०३ शूद्रकृता राजकृता स्त्रीकृता

विश्वास-प्रस्तुतिः ...{Loading}...

शूद्रकृता राजकृता
स्त्रीकृता ब्रह्मभिः कृता ।
जाया पत्या नुत्तेव
कर्तारं बन्धुम् ऋच्छतु ॥

०४ अनयाहम् ओषध्येत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

अनयाहम् ओषध्येत्य् एका ॥

०५ कृत्याः सन्तु कृत्याकृते

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्याः सन्तु कृत्याकृते
शपथाः शपथीव्ने ।
प्रत्यक् प्रति प्र हिण्मसि
यश् चकार तम् ऋच्छतु ॥

०६ प्रतीचीन आङ्गिरसो ऽध्यक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीन आङ्गिरसो
ऽध्यक्षो नः पुरोहितः ।
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥

०७ यस् त्वोवाच परेहीति

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वोवाच परेहीति
प्रतिकूलम् उदाय्यम् ।
तं कृत्ये ऽभि नि वर्तस्व
मास्मान् इच्छो अनागसः ॥

०८ यस् ते परूंषि

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते परूंषि संदधौ
रथस्येव विभुर् धिया । +++(read rathasyeva rbhur dhiyā?)+++
तं गच्छ तत्र ते +ऽयनम्
अज्ञातस् ते ऽयं जनः ॥ +++(Bhatt. teyaṃ)+++

०९ ये त्वा कृत्या

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्वा कृत्या आलेभिरे +++(Bhatt. yas tvā kṛtyālebhire)+++
विद्वला अभिचारिणः ।
विद्मेदं कृत्यादूषणं
प्रतिवर्त्म पुनःसरं
तेन त्वा स्नपयामसि ॥

१० यद् दुर्भगां प्रस्नपिताम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दुर्भगां प्रस्नपितां +++(Bhatt. praśnapitā)+++
मृतवत्साम् उपेयिम ।
अपैतु सर्वं मत् पापं
द्रविणं मोप तिष्ठतु ॥