सर्वाष् टीकाः ...{Loading}...
०१ दिवस् पृथिव्या अन्तरिक्षात्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवस् पृथिव्या अन्तरिक्षात् समुद्राद्
अग्नेर् वातान् मधुकशा हि जज्ञे ।
तां चायित्वामृतं वसानां
हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥ (Bhatt. ṛgbhiḥ)
मूलम् ...{Loading}...
मूलम् (GR)
दिवस् पृथिव्या अन्तरिक्षात् समुद्राद्
अग्नेर् वातान् मधुकशा हि जज्ञे ।
तां चायित्वामृतं वसानां
हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥ (Bhatt. ṛgbhiḥ)
सर्वाष् टीकाः ...{Loading}...
०२ पश्यन्त्य् अस्याश् चरितम्
विश्वास-प्रस्तुतिः ...{Loading}...
पश्यन्त्य् अस्याश् चरितं पृथिव्यां
पृथङ् नरो बहुधा मीमांसमानाः ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पश्यन्त्य् अस्याश् चरितं पृथिव्यां
पृथङ् नरो बहुधा मीमांसमानाः ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ महद् विश्वरूपं पयो
विश्वास-प्रस्तुतिः ...{Loading}...
महद् विश्वरूपं पयो अस्याः
समुद्रस्योत त्वा रेत आहुः ।
यत ऐति मधुकशा रराणा
तत् प्राणस् तद् अमृतं निविष्टम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
महद् विश्वरूपं पयो अस्याः
समुद्रस्योत त्वा रेत आहुः ।
यत ऐति मधुकशा रराणा
तत् प्राणस् तद् अमृतं निविष्टम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ मातादित्यानां दुहिता वसूनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
मातादित्यानां दुहिता वसूनां
प्राणः प्रजानाम् अमृतस्य नाभिः ।
हिरण्यवर्णा मधुकशा घृताची
महद् भर्गश् चरति मर्त्येषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मातादित्यानां दुहिता वसूनां
प्राणः प्रजानाम् अमृतस्य नाभिः ।
हिरण्यवर्णा मधुकशा घृताची
महद् भर्गश् चरति मर्त्येषु ॥
सर्वाष् टीकाः ...{Loading}...
०५ मधोः कशाम् अजनयन्त
विश्वास-प्रस्तुतिः ...{Loading}...
मधोः कशाम् अजनयन्त देवास्
तस्या गर्भो अभवद् विश्वरूपम् ।
तं जातं तरुणं पिपर्ति माता
स जातो विश्वा भुवनाभि वस्ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधोः कशाम् अजनयन्त देवास्
तस्या गर्भो अभवद् विश्वरूपम् ।
तं जातं तरुणं पिपर्ति माता
स जातो विश्वा भुवनाभि वस्ते ॥
सर्वाष् टीकाः ...{Loading}...
०६ कस् तौ प्र
विश्वास-प्रस्तुतिः ...{Loading}...
कस् तौ प्र वेद क उ तौ न आह
याव् अस्या स्तनौ सहस्रधाराव् अक्षितौ ।
ऊर्जं दुहाते अनपस्फुरन्तौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
कस् तौ प्र वेद क उ तौ न आह
याव् अस्या स्तनौ सहस्रधाराव् अक्षितौ ।
ऊर्जं दुहाते अनपस्फुरन्तौ ॥
सर्वाष् टीकाः ...{Loading}...
०७ कस् तं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
कस् तं प्र वेद क उ तं चिकेत
यो अस्या हृदः कलशः सोमधानो अक्षितः ।
ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥
मूलम् ...{Loading}...
मूलम् (GR)
कस् तं प्र वेद क उ तं चिकेत
यो अस्या हृदः कलशः सोमधानो अक्षितः ।
ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥
सर्वाष् टीकाः ...{Loading}...
०८ हिङ्करिक्रती बृहती वयोधा
विश्वास-प्रस्तुतिः ...{Loading}...
हिङ्करिक्रती बृहती वयोधा
उच्चैर्घोषाभि याति या व्रता ।
त्रीन् घर्मान् अभि वावशाना
मिमाति मायुं पयते पयोभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिङ्करिक्रती बृहती वयोधा
उच्चैर्घोषाभि याति या व्रता ।
त्रीन् घर्मान् अभि वावशाना
मिमाति मायुं पयते पयोभिः ॥
सर्वाष् टीकाः ...{Loading}...
०९ याम् आपीनाम् उप
विश्वास-प्रस्तुतिः ...{Loading}...
याम् आपीनाम् उप सीदन्त्य् आपो
यां शक्वरा वृषभा यां स्वराजः ।
ते वर्षन्ति ते वर्षयन्ति (Bhatt. te varṣanti te varṣanti)
तद् विदे कामम् ऊर्जम् आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याम् आपीनाम् उप सीदन्त्य् आपो
यां शक्वरा वृषभा यां स्वराजः ।
ते वर्षन्ति ते वर्षयन्ति (Bhatt. te varṣanti te varṣanti)
तद् विदे कामम् ऊर्जम् आपः ॥
सर्वाष् टीकाः ...{Loading}...
१० स्तनयित्नुस् ते वाक्
विश्वास-प्रस्तुतिः ...{Loading}...
स्तनयित्नुस् ते वाक् प्रजापते
वृषा शुष्मं क्षिपसि भूम्याम् अधि ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तनयित्नुस् ते वाक् प्रजापते
वृषा शुष्मं क्षिपसि भूम्याम् अधि ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥