०२९

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रो मन्थतु मन्थिता

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मन्थतु मन्थिता
शक्रः शूरः पुरन्दरः ।
यथा हनाम सेनाम्
अमित्राणां सहस्रशः ॥

०२ पूतिरज्जुर् उपध्मानी पूतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

पूतिरज्जुर् उपध्मानी +++(Bhatt. ubadhnānī)+++
पूतिं सेनां कृणोत्व् अमूम् । +++(Bhatt. amuṃ)+++
अग्निं धूमं परादृश्य
हृत्स्व् आ दधतां भयम् ॥

०३ परुषान् अमून् परुषाह्वः

विश्वास-प्रस्तुतिः ...{Loading}...

परुषान् अमून् परुषाह्वः कृणोतु
हन्त्य् एनान् वधको वधैः ।
क्षिप्रं शर इव भज्यन्तां
बृहज्जालेन संजिताः ॥

०४ अमून् अश्वत्थ नि

विश्वास-प्रस्तुतिः ...{Loading}...

अमून् अश्वत्थ नि शृणीहि
खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भज्यन्तां
बृहज्जालेन संजिताः ॥

०५ अन्तरिक्षं जालम् आसीज्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षं जालम् आसीज्
जालदण्डा दिशो महीः ।
तेनाभिदाय सेनाम्
इन्द्रो दस्यून् अपावपत् ॥ +++(Bhatt. upāvapat)+++

०६ बृहत् ते जालम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहत् ते जालं बृहत इन्द्र शूर +++(Bhatt. bṛha te … śūraḥ)+++
सहस्रार्घस्य शतवीर्यस्य ।
तेना न्य् उब्ज मघवन्न् अमित्रान् +++(Bhatt. amitrā)+++
शश्वतीभ्यः समाभ्यः ॥

०७ बृहत् ते जालम्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहत् ते जालं बृहतश् +++(Bhatt. bṛhadda)+++
शक्रस्य वाजिनीवतः ।
तेना शतं सहस्रम् अयुतं जघान-
-इन्द्रो दस्यूनाम् अभिधाय सेनाम् ॥

०८ अयं लोको जालम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं लोको जालम् आसीच्
छक्रस्य महतो महान् ।
तेनाहम् इन्द्रजालेन
तमसामून् अभि दधामि सर्वान् ॥

०९ सेदिर् उग्रावर्तिर् आर्तिश्

विश्वास-प्रस्तुतिः ...{Loading}...

सेदिर् उग्रावर्तिर्
आर्तिश् चानपवाचना ।
श्रमस् तन्द्रीश् च मोहश् च
तैर् अमून् अभि दधामि सर्वान् ॥ +++(Bhatt. tainamūn)+++

१० मृत्यवे अमून् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्यवे अमून् प्र यच्छामि +++(Bhatt. mṛtyavemūṃ)+++
मृत्युपाशैर् अमी सिताः । +++(Bhatt. śitāḥ)+++
मृत्योर् ये अघला दूतास् +++(Bhatt. aghalā)+++
तेभ्य एनान् प्रति नयामि बद्ध्वा ॥ +++(Bhatt. baddhān)+++