सर्वाष् टीकाः ...{Loading}...
०१ उत्तमो अस्य् ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तमो अस्य् ओषधीनाम्
अनड्वान् जगताम् इव
व्याघ्रः श्वपदाम् इव ।
यम् ऐच्छामावदाम तं
प्रतिस्पाशनम् अब्रुवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तमो अस्य् ओषधीनाम्
अनड्वान् जगताम् इव
व्याघ्रः श्वपदाम् इव ।
यम् ऐच्छामावदाम तं
प्रतिस्पाशनम् अब्रुवन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ स इद् व्याघ्रो
विश्वास-प्रस्तुतिः ...{Loading}...
स इद् व्याघ्रो भवत्य्
अथो सिंहो अथो वृषा
सर्वा दिशो वि राजति +++(Bhatt. omits this pāda)+++
यो बिभर्तीमं मणिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स इद् व्याघ्रो भवत्य्
अथो सिंहो अथो वृषा
सर्वा दिशो वि राजति +++(Bhatt. omits this pāda)+++
यो बिभर्तीमं मणिम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ नैनं घ्नन्त्य् अप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं घ्नन्त्य् अप्सरसो
न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजाति
यो बिभर्तीमं मणिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नैनं घ्नन्त्य् अप्सरसो
न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजाति
यो बिभर्तीमं मणिम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ कश्यपस् त्वाम् असृजत
विश्वास-प्रस्तुतिः ...{Loading}...
कश्यपस् त्वाम् असृजत
कश्यपस् त्वां समैरयत् ।
अबिभस् त्वेन्द्रो मानुषे +++(Bhatt. abhivas)+++
बिभ्रत् संश्रेषिणे ऽजयत् ॥ +++(Bhatt. sāśreśraṇejayat)+++
मूलम् ...{Loading}...
मूलम् (GR)
कश्यपस् त्वाम् असृजत
कश्यपस् त्वां समैरयत् ।
अबिभस् त्वेन्द्रो मानुषे +++(Bhatt. abhivas)+++
बिभ्रत् संश्रेषिणे ऽजयत् ॥ +++(Bhatt. sāśreśraṇejayat)+++
सर्वाष् टीकाः ...{Loading}...
०५ मणिं सपत्नजम्भनं वर्म
विश्वास-प्रस्तुतिः ...{Loading}...
मणिं सपत्नजम्भनं
वर्म देवा अबध्नत ।
यस् त्वा कृत्याभिर्
यस् त्वा दीक्षाभिर्
यस् त्वा यज्ञैर् जिघांसति ।
प्रत्यक् त्वम् इन्द्र तं जहि +++(Bhatt. tamindra)+++
वज्रेण शतपर्वणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मणिं सपत्नजम्भनं
वर्म देवा अबध्नत ।
यस् त्वा कृत्याभिर्
यस् त्वा दीक्षाभिर्
यस् त्वा यज्ञैर् जिघांसति ।
प्रत्यक् त्वम् इन्द्र तं जहि +++(Bhatt. tamindra)+++
वज्रेण शतपर्वणा ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयम् इद् वै
विश्वास-प्रस्तुतिः ...{Loading}...
अयम् इद् वै प्रतीवर्तः +++(Bhatt. vaiḥ)+++
सहस्वान् सञ्जयो मणिः ।
प्रजां धनं च रक्षतु
परिपाणः सुमङ्गलः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयम् इद् वै प्रतीवर्तः +++(Bhatt. vaiḥ)+++
सहस्वान् सञ्जयो मणिः ।
प्रजां धनं च रक्षतु
परिपाणः सुमङ्गलः ॥
सर्वाष् टीकाः ...{Loading}...
०७ असपत्नं नो अधराद्
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्नं नो अधराद्
असपत्नं न उत्तरात् ।
इन्द्रासपत्नं नः पश्चाज्
ज्योतिः शूर पुरस् कृधि ॥ +++(Bhatt. jyotiṣpuraḥ puras)+++
मूलम् ...{Loading}...
मूलम् (GR)
असपत्नं नो अधराद्
असपत्नं न उत्तरात् ।
इन्द्रासपत्नं नः पश्चाज्
ज्योतिः शूर पुरस् कृधि ॥ +++(Bhatt. jyotiṣpuraḥ puras)+++
सर्वाष् टीकाः ...{Loading}...
०८ ऐन्द्राग्नं वर्म बहुलम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऐन्द्राग्नं वर्म बहुलं यद् उग्रं
विश्वे देवा नाति विध्यन्ति सर्वे ।
तत् ते तन्वं त्रायतां सर्वतो
बृहद् आयुष्मान् जरदष्टिर् यथासत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐन्द्राग्नं वर्म बहुलं यद् उग्रं
विश्वे देवा नाति विध्यन्ति सर्वे ।
तत् ते तन्वं त्रायतां सर्वतो
बृहद् आयुष्मान् जरदष्टिर् यथासत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ आ त्वारुक्षद् देवमणिर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वारुक्षद् देवमणिर्
मह्या अरिष्टतातये ।
इमं मेथिम् अभिसंविशध्वं
तनूपानं त्रिवरूथम् ओजसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वारुक्षद् देवमणिर्
मह्या अरिष्टतातये ।
इमं मेथिम् अभिसंविशध्वं
तनूपानं त्रिवरूथम् ओजसे ॥
सर्वाष् टीकाः ...{Loading}...
१० अस्मिन्न् इन्द्रो नि
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मिन्न् इन्द्रो नि दधातु नृम्णम्
इमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदाय-
-आयुष्मान् जरदष्टिर् यथासत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मिन्न् इन्द्रो नि दधातु नृम्णम्
इमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदाय-
-आयुष्मान् जरदष्टिर् यथासत् ॥
सर्वाष् टीकाः ...{Loading}...
११ इन्द्रो बध्नातु ते
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो बध्नातु ते मणिं जिगीवाँ
अपराजितः सोमपा अभयङ्करो वृषा ।
स त्वा रक्षतु सर्वदा
दिवा नक्तं च विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो बध्नातु ते मणिं जिगीवाँ
अपराजितः सोमपा अभयङ्करो वृषा ।
स त्वा रक्षतु सर्वदा
दिवा नक्तं च विश्वतः ॥