०२७

सर्वाष् टीकाः ...{Loading}...

०१ अयं प्रतिसरो मणिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं प्रतिसरो मणिर्
वीरो वीराय बध्यते ।
वीर्यावान्त् सपत्नहा शूरवीरः
परिपाणः सुमङ्गलः ॥

०२ अयं मणिः सपत्नहा

विश्वास-प्रस्तुतिः ...{Loading}...

अयं मणिः सपत्नहा सुवीरः
सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक् कृत्या दूषयन्न् एतु वीरः ॥

०३ अनेनेन्द्रो मणिना वृत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनेनेन्द्रो मणिना वृत्रम् अहन्न्
अनेनासुरान् पराभावयन् मनीषी ।
अनेन द्यावापृथिवी उभे अजयद्
अनेनाजयत् प्रदिशश् चतस्रः ॥

०४ अयं स्राक्त्यो मणिः

विश्वास-प्रस्तुतिः ...{Loading}...

अयं स्राक्त्यो मणिः
प्रतीवर्तः प्रतिसरः ।
ओजस्वान् विमृधो मणिः
सो अस्मान् पातु विश्वतः ॥

०५ तद् अग्निर् आह

विश्वास-प्रस्तुतिः ...{Loading}...

तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ।
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)

०६ अन्तर् दधे द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर् दधे द्यावापृथिवी
उताहर् उत सूर्यम् ।
उतेमं ब्रह्मणस्पतिं
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)

०७ ये स्राक्त्यं मणिम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स्राक्त्यं मणिं
जना वर्माणि कृण्वते ।
सूर्यो दिवम् इवारुह्य
वि कृत्या बाधते वशी ॥

०८ स्राक्त्येन मणिन ऋषिणेव

विश्वास-प्रस्तुतिः ...{Loading}...

स्राक्त्येन मणिन
ऋषिणेव मनीषिणा ।
अजैषं सर्वाः पृतना
वि मृधो हन्मि रक्षसः ॥

०९ याः कृत्या आङ्गिरसीर्

विश्वास-प्रस्तुतिः ...{Loading}...

याः कृत्या आङ्गिरसीर्
याः कृत्या आसुरीर् उत ।
कृत्या याः स्वयंकृता
या उ चान्येभिर् आभृताः ।
उभयीस् ताः परा यन्तु
परावतं नवतिं नाव्या अति ॥ (Bhatt. nāvyāyati)

१० अस्मै मणिं वर्म

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मै मणिं वर्म बध्नन्तु देवा
इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
प्रजापतिः परमेष्ठी विराड्
वैश्वानर ऋषयश् च सर्वे ॥