०२६

सर्वाष् टीकाः ...{Loading}...

०१ अयं पिपान इन्द्रियम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं पिपान इन्द्रियं
रयिं बिभर्ति चेतनीम् । (Bhatt. retanīm)
अयं धेनुं सुदुघां नित्यवत्सां
वशं दुहे विपश्चितं पुरो दिवः ॥

०२ पिशङ्गरूपो नभसो वयोधा

विश्वास-प्रस्तुतिः ...{Loading}...

पिशङ्गरूपो नभसो वयोधा
ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।
प्रजाम् अस्मभ्यं दधद् रयिं च
रायस्पोषम् उपसत्वा सदेम ॥

०३ एतं वो युवानम्

विश्वास-प्रस्तुतिः ...{Loading}...

एतं वो युवानं परि दध्मो अत्र
तेन क्रीडन्तीश् चरत वशाꣳ अनु ।
मा नो हिंसिष्ट जनुषा सुभागा
रायश् च पोषैर् अभि नः सचध्वम् ॥

०४ उपेहोपपर्चनो ऽस्मिन् गोष्ठ

विश्वास-प्रस्तुतिः ...{Loading}...

उपेहोपपर्चनो
ऽस्मिन् गोष्ठ उप पृञ्चतु ।
उप ऋषभस्य यद् रेत
उपेन्द्र तव वीर्यम् ॥