सर्वाष् टीकाः ...{Loading}...
०१ य इन्द्र इव
विश्वास-प्रस्तुतिः ...{Loading}...
य इन्द्र इव देवेष्व्
एति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि
ब्रह्मा सं स्तौतु भद्रया ॥
मूलम् ...{Loading}...
मूलम् (GR)
य इन्द्र इव देवेष्व्
एति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि
ब्रह्मा सं स्तौतु भद्रया ॥
सर्वाष् टीकाः ...{Loading}...
०२ पार्श्वे आस्ताम् अनुमत्या
विश्वास-प्रस्तुतिः ...{Loading}...
पार्श्वे आस्ताम् अनुमत्या
भगस्यास्ताम् अनूवृजौ । +++(Bhatt. anuvṛjau)+++
अष्ठीवन्ताव् अब्रवीन् मित्रो
ममैतौ केवलाव् इति ॥ +++(Bhatt. mamaito)+++
मूलम् ...{Loading}...
मूलम् (GR)
पार्श्वे आस्ताम् अनुमत्या
भगस्यास्ताम् अनूवृजौ । +++(Bhatt. anuvṛjau)+++
अष्ठीवन्ताव् अब्रवीन् मित्रो
ममैतौ केवलाव् इति ॥ +++(Bhatt. mamaito)+++
सर्वाष् टीकाः ...{Loading}...
०३ भसद् आसीद् आदित्यानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
भसद् आसीद् आदित्यानां
श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य
तेन धूनोत्य् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भसद् आसीद् आदित्यानां
श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य
तेन धूनोत्य् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ क्रोड आसीज् जामिशंसस्य
विश्वास-प्रस्तुतिः ...{Loading}...
क्रोड आसीज् जामिशंसस्य +++(Bhatt. āsīrjāmisaṃsasya)+++
सोमस्य कलशो धृतः । +++(Bhatt. dṛtaḥ)+++
उत्थातुर् अब्रुवन् पदो
यद् ऋषभं व्यकल्पयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रोड आसीज् जामिशंसस्य +++(Bhatt. āsīrjāmisaṃsasya)+++
सोमस्य कलशो धृतः । +++(Bhatt. dṛtaḥ)+++
उत्थातुर् अब्रुवन् पदो
यद् ऋषभं व्यकल्पयन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ गुदा आसन् सिनीवाल्याः
विश्वास-प्रस्तुतिः ...{Loading}...
गुदा आसन् सिनीवाल्याः
सूर्यायास् त्वचम् अब्रुवन् ।
देवाः संगत्य यत् सर्व
ऋषभं व्यकल्पयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गुदा आसन् सिनीवाल्याः
सूर्यायास् त्वचम् अब्रुवन् ।
देवाः संगत्य यत् सर्व
ऋषभं व्यकल्पयन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ ते कुष्ठिकाः सरमायै
विश्वास-प्रस्तुतिः ...{Loading}...
ते कुष्ठिकाः सरमायै +++(Bhatt. svaramāyai)+++
कूर्मेभ्यो अदधुः शफान् । +++(Bhatt. śaphāṃ)+++
ऊबध्यम् अस्य कीटेभ्यश्
श्ववर्तेभ्यो अधारयन् ॥ +++(Bhatt. śaparttebhyo)+++
मूलम् ...{Loading}...
मूलम् (GR)
ते कुष्ठिकाः सरमायै +++(Bhatt. svaramāyai)+++
कूर्मेभ्यो अदधुः शफान् । +++(Bhatt. śaphāṃ)+++
ऊबध्यम् अस्य कीटेभ्यश्
श्ववर्तेभ्यो अधारयन् ॥ +++(Bhatt. śaparttebhyo)+++
सर्वाष् टीकाः ...{Loading}...
०७ शृङ्गाभ्यां रक्ष ऋषत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
शृङ्गाभ्यां रक्ष ऋषत्य्
अरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां
गवां यः पतिर् अघ्न्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शृङ्गाभ्यां रक्ष ऋषत्य्
अरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां
गवां यः पतिर् अघ्न्यः ॥
सर्वाष् टीकाः ...{Loading}...
०८ शतयाजं स यजते
विश्वास-प्रस्तुतिः ...{Loading}...
शतयाजं स यजते +++(Bhatt. śatayātaṃ sejate)+++
नैनं दुन्वन्त्य् अग्नयः । +++(Bhatt. nṛṇvanty)+++
जिन्वन्ति सर्वे तं देवा
यो ब्राह्मण ऋषभम् आ जुहोति ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतयाजं स यजते +++(Bhatt. śatayātaṃ sejate)+++
नैनं दुन्वन्त्य् अग्नयः । +++(Bhatt. nṛṇvanty)+++
जिन्वन्ति सर्वे तं देवा
यो ब्राह्मण ऋषभम् आ जुहोति ॥
सर्वाष् टीकाः ...{Loading}...
०९ ब्राह्मणाय वृषभं दत्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्राह्मणाय वृषभं दत्त्वा +++(Bhatt. brāhmaṇa ṛṣabhaṃ)+++
वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां
स्वे गोष्ठे वि पश्यतु ॥ +++(Bhatt. aghnyānāsme)+++
मूलम् ...{Loading}...
मूलम् (GR)
ब्राह्मणाय वृषभं दत्त्वा +++(Bhatt. brāhmaṇa ṛṣabhaṃ)+++
वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां
स्वे गोष्ठे वि पश्यतु ॥ +++(Bhatt. aghnyānāsme)+++
सर्वाष् टीकाः ...{Loading}...
१० गावः सन्तु प्रजाः
विश्वास-प्रस्तुतिः ...{Loading}...
गावः सन्तु प्रजाः सन्त्व्
अथो अस्तु तनूबलम् ।
सर्वं तद् अनु मन्यन्तां
देवा ऋषभदायिने ॥
मूलम् ...{Loading}...
मूलम् (GR)
गावः सन्तु प्रजाः सन्त्व्
अथो अस्तु तनूबलम् ।
सर्वं तद् अनु मन्यन्तां
देवा ऋषभदायिने ॥