सर्वाष् टीकाः ...{Loading}...
०१ साहस्रस् त्वेष ऋषभः
विश्वास-प्रस्तुतिः ...{Loading}...
साहस्रस् त्वेष ऋषभः पयस्वान्
विश्वा रूपाणि वक्षणासु बिभ्रत् ।
भद्रं दात्रे यजमानाय शिक्षन्
बार्हस्पत्य उस्रियस् तन्तुम् आतान् ॥ +++(Bhatt. ātāṃ)+++
मूलम् ...{Loading}...
मूलम् (GR)
साहस्रस् त्वेष ऋषभः पयस्वान्
विश्वा रूपाणि वक्षणासु बिभ्रत् ।
भद्रं दात्रे यजमानाय शिक्षन्
बार्हस्पत्य उस्रियस् तन्तुम् आतान् ॥ +++(Bhatt. ātāṃ)+++
सर्वाष् टीकाः ...{Loading}...
०२ अपां यो अग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
अपां यो अग्रे प्रतिमा बभूव
प्रभूः सर्वस्मै पृथिवीव देवी । +++(Bhatt. pṛthivī ca)+++
पिता वत्सानां पतिर् अघ्न्यानां
साहस्रे पोषे अपि नः कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपां यो अग्रे प्रतिमा बभूव
प्रभूः सर्वस्मै पृथिवीव देवी । +++(Bhatt. pṛthivī ca)+++
पिता वत्सानां पतिर् अघ्न्यानां
साहस्रे पोषे अपि नः कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुमान् अन्तर्वान् स्थविरः
विश्वास-प्रस्तुतिः ...{Loading}...
पुमान् अन्तर्वान् स्थविरः पयस्वान् +++(Bhatt. antarvāṃ)+++
वसोः कबन्धम् ऋषभो बिभर्ति ।
तम् इन्द्राय पथिभिर् देवयानैर्
हुतम् अग्निर् वहतु जातवेदाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुमान् अन्तर्वान् स्थविरः पयस्वान् +++(Bhatt. antarvāṃ)+++
वसोः कबन्धम् ऋषभो बिभर्ति ।
तम् इन्द्राय पथिभिर् देवयानैर्
हुतम् अग्निर् वहतु जातवेदाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवानां भाग उपनाह
विश्वास-प्रस्तुतिः ...{Loading}...
देवानां भाग उपनाह एषो
अपां रस ओषधीनां घृतस्य । +++(Bhatt. eṣopāṃ)+++
सोमस्य द्रप्सम् अवृणीत शक्रो
बृहन्न् अद्रिर् अभवद् यच् छरीरम् ॥ +++(Bhatt. abhir)+++
मूलम् ...{Loading}...
मूलम् (GR)
देवानां भाग उपनाह एषो
अपां रस ओषधीनां घृतस्य । +++(Bhatt. eṣopāṃ)+++
सोमस्य द्रप्सम् अवृणीत शक्रो
बृहन्न् अद्रिर् अभवद् यच् छरीरम् ॥ +++(Bhatt. abhir)+++
सर्वाष् टीकाः ...{Loading}...
०५ पिता वत्सानां पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
पिता वत्सानां पतिर् अघ्न्यानाम्
अथो पिता महतां गर्गराणाम् ।
वत्सो जरायुः प्रतिधुक् पीयूष
आमिक्षा घृतं तद् व् अस्य रेतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिता वत्सानां पतिर् अघ्न्यानाम्
अथो पिता महतां गर्गराणाम् ।
वत्सो जरायुः प्रतिधुक् पीयूष
आमिक्षा घृतं तद् व् अस्य रेतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ सोमस्य पूर्णं कलशम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमस्य पूर्णं कलशं बिभर्षि
त्वष्टा रूपाणां जनिता पशूनाम् ।
शिवास् ते सन्तु प्रजन्व इमा
न्य् अस्मभ्यं स्वधिते यच्छ या अमूः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमस्य पूर्णं कलशं बिभर्षि
त्वष्टा रूपाणां जनिता पशूनाम् ।
शिवास् ते सन्तु प्रजन्व इमा
न्य् अस्मभ्यं स्वधिते यच्छ या अमूः ॥
सर्वाष् टीकाः ...{Loading}...
०७ इन्द्रस्यौजो वरुणस्य बाहू
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्यौजो वरुणस्य बाहू
अश्विनोर् अंसौ मरुताम् इयं ककुत् ।
बृहस्पतिसंभृतम् एतम् आहुर्
ये धीरासः कवयो ये मनीषिणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्यौजो वरुणस्य बाहू
अश्विनोर् अंसौ मरुताम् इयं ककुत् ।
बृहस्पतिसंभृतम् एतम् आहुर्
ये धीरासः कवयो ये मनीषिणः ॥
सर्वाष् टीकाः ...{Loading}...
०८ आज्यं बिभर्ति घृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
आज्यं बिभर्ति घृतम् अस्य रेतः
साहस्रः पोषस् तम् उ यज्ञम् आहुः ।
इन्द्रस्य रूपम् ऋषभो वसानः
सो अस्मां देवाः शिव ऐतु दत्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आज्यं बिभर्ति घृतम् अस्य रेतः
साहस्रः पोषस् तम् उ यज्ञम् आहुः ।
इन्द्रस्य रूपम् ऋषभो वसानः
सो अस्मां देवाः शिव ऐतु दत्तः ॥
सर्वाष् टीकाः ...{Loading}...
०९ दैवीर् विशः पयस्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
दैवीर् विशः पयस्वान् आ तनोषि
त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः ।
सहस्रं स एकमुखा ददाति
यो ब्राह्मण ऋषभम् आ जुहोति ॥
मूलम् ...{Loading}...
मूलम् (GR)
दैवीर् विशः पयस्वान् आ तनोषि
त्वाम् इन्द्रं त्वां सरस्वन्तम् आहुः ।
सहस्रं स एकमुखा ददाति
यो ब्राह्मण ऋषभम् आ जुहोति ॥
सर्वाष् टीकाः ...{Loading}...
१० बृहस्पतिः सविता ते
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतिः सविता ते मनो दधौ
त्वष्टुर् वायोः पर्य् आत्मा त आभृतः ।
अन्तरिक्षे मनसा त्वा जुहोमि
बर्हिष् टे द्यावापृथिवी अभूताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतिः सविता ते मनो दधौ
त्वष्टुर् वायोः पर्य् आत्मा त आभृतः ।
अन्तरिक्षे मनसा त्वा जुहोमि
बर्हिष् टे द्यावापृथिवी अभूताम् ॥