सर्वाष् टीकाः ...{Loading}...
०१ प्राणो मृत्युः प्राणो
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणो मृत्युः प्राणो अमृतं (Bhatt. prāṇomṛtaṃ)
प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनम्
उत्तमे लोक आ दधत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणो मृत्युः प्राणो अमृतं (Bhatt. prāṇomṛtaṃ)
प्राणं देवा उपासते ।
प्राणो ह सत्यवादिनम्
उत्तमे लोक आ दधत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्राणो विराट् प्राणो
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणो विराट् प्राणो देष्ट्री
प्राणं सर्वा उपासते ।
प्राणो ऽग्निश् चन्द्रमाः सूर्यः (Bhatt. agniś)
प्राणम् आहुः प्रजापतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणो विराट् प्राणो देष्ट्री
प्राणं सर्वा उपासते ।
प्राणो ऽग्निश् चन्द्रमाः सूर्यः (Bhatt. agniś)
प्राणम् आहुः प्रजापतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्राणापानौ व्रीहयवाव् अनड्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणापानौ व्रीहयवाव्
अनड्वान् प्राण उच्यते ।
यवे ह प्राण आहितो
अपानो व्रीहिर् उच्यते ॥ (Bhatt. āhitopāno)
मूलम् ...{Loading}...
मूलम् (GR)
प्राणापानौ व्रीहयवाव्
अनड्वान् प्राण उच्यते ।
यवे ह प्राण आहितो
अपानो व्रीहिर् उच्यते ॥ (Bhatt. āhitopāno)
सर्वाष् टीकाः ...{Loading}...
०४ अपानति प्राणति पुरुषो
विश्वास-प्रस्तुतिः ...{Loading}...
अपानति प्राणति
पुरुषो गर्भे अन्तः ।
यदा त्वं प्राण जिन्वस्य्
अथ स जायते त्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपानति प्राणति
पुरुषो गर्भे अन्तः ।
यदा त्वं प्राण जिन्वस्य्
अथ स जायते त्वत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्राणम् आहुर् मातरिश्वानम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणम् आहुर् मातरिश्वानं
वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च
प्राणे सर्वं समाहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणम् आहुर् मातरिश्वानं
वातो ह प्राण उच्यते ।
प्राणे ह भूतं भव्यं च
प्राणे सर्वं समाहितम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ आथर्वणीर् आङ्गिरसीर् दैवीर्
विश्वास-प्रस्तुतिः ...{Loading}...
आथर्वणीर् आङ्गिरसीर्
दैवीर् मनुष्यजाश् च याः । (Bhatt. devīr)
सर्वाः प्र मोदन्त ओषधीर्
यदा त्वं प्राण जिन्वसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आथर्वणीर् आङ्गिरसीर्
दैवीर् मनुष्यजाश् च याः । (Bhatt. devīr)
सर्वाः प्र मोदन्त ओषधीर्
यदा त्वं प्राण जिन्वसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ यदा प्राणो अभ्यवर्षीद्
विश्वास-प्रस्तुतिः ...{Loading}...
यदा प्राणो अभ्यवर्षीद्
वर्षेण पृथिवीं महीम् ।
ओषधयः प्र मोदन्ते
अथो याः काश् च वीरुधः ॥ (Bhatt. modantetho)
मूलम् ...{Loading}...
मूलम् (GR)
यदा प्राणो अभ्यवर्षीद्
वर्षेण पृथिवीं महीम् ।
ओषधयः प्र मोदन्ते
अथो याः काश् च वीरुधः ॥ (Bhatt. modantetho)
सर्वाष् टीकाः ...{Loading}...
०८ यस् ते प्राणेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते प्राणेदं वेद
यस्मिंश् चासि प्रतिष्ठितः ।
सर्वे अस्मै बलिं हरान् (Bhatt. valiṃ)
अमुष्मिंल् लोक उत्तमे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते प्राणेदं वेद
यस्मिंश् चासि प्रतिष्ठितः ।
सर्वे अस्मै बलिं हरान् (Bhatt. valiṃ)
अमुष्मिंल् लोक उत्तमे ॥
सर्वाष् टीकाः ...{Loading}...
०९ यथा प्राण बलिहृतस्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा प्राण बलिहृतस् (Bhatt. valihṛtas)
तुभ्यं सर्वाः प्रजा इमाः ।
एवा तस्मै बलिं हरान् (Bhatt. valiṃ)
यस् त्वा शुश्राव शुश्रुवुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा प्राण बलिहृतस् (Bhatt. valihṛtas)
तुभ्यं सर्वाः प्रजा इमाः ।
एवा तस्मै बलिं हरान् (Bhatt. valiṃ)
यस् त्वा शुश्राव शुश्रुवुः ॥
सर्वाष् टीकाः ...{Loading}...
१० अन्तर्गर्भश् चरति देवतास्व्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्गर्भश् चरति देवतास्व्
आभूतो भूतः स उ जायते पुनः ।
स भूतं भव्यं भुवनं भविष्यत्
पिता पुत्रं प्र विवेशा शचीभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्गर्भश् चरति देवतास्व्
आभूतो भूतः स उ जायते पुनः ।
स भूतं भव्यं भुवनं भविष्यत्
पिता पुत्रं प्र विवेशा शचीभिः ॥