०२१

सर्वाष् टीकाः ...{Loading}...

०१ प्राणाय नमो यस्य

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणाय नमो
यस्य सर्वम् इदं वशे ।
यो भूतः सर्वस्येश्वरो
यस्मिन् सर्वं प्रतिष्ठितम् ॥

०२ नमस् ते प्राण

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते प्राण क्रन्दाय
नमस् ते स्तनयित्नवे ।
नमस् ते अस्तु विद्युते
नमस् ते प्राण वर्षते ॥

०३ यत् प्राण ऋताव्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राण ऋताव् आगते
अभिक्रन्दत्य् ओषधीः ।
प्र वीयन्ते गर्भं दधते
अथो बह्वीर् वि जायन्ते ॥

०४ यत् प्राण स्तनयित्नुना

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राण स्तनयित्नुना-
-अभिक्रन्दत्य् ओषधीः ।
सर्वं तदा प्र मोदते
यद् उ किं च भूम्याम् अधि ॥

०५ यदा प्राणो अभ्यक्रन्दीद्

विश्वास-प्रस्तुतिः ...{Loading}...

यदा प्राणो अभ्यक्रन्दीद्
वर्षेण स्तनयित्नुना ।
पशवस् तत् प्र मोदन्ते
महो वै नो भविष्यति ॥

०६ अभिवृष्टा ओषधयः प्राणेन

विश्वास-प्रस्तुतिः ...{Loading}...

अभिवृष्टा ओषधयः
प्राणेन सम् अवादिरन् ।
आयुर् वै नः प्रातीतरत्
सर्वा नः सुरभीर् अकः ॥

०७ नमस् ते प्राण

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते प्राण प्राणते
नमो अस्त्व् अपानते ।
प्रतीचीनाय ते नमः
पराचीनाय ते नमः
सर्वस्मै त इदं नमः ॥

०८ नमस् ते अस्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते प्राण तिष्ठत
आसीनायोत ते नमः ॥

०९ या ते प्राण

विश्वास-प्रस्तुतिः ...{Loading}...

या ते प्राण प्रिया तनू
या वा ते प्राण प्रेयसी ।
अथो यद् भेषजं तव
तस्य नो धेहि जीवसे ॥

१० प्राणः प्रजा अनु

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणः प्रजा अनु वस्ते (Bhatt. anu paste, Barret anūpāste)
पिता पुत्रम् इव प्रियम् ।
प्राणो ह सर्वस्येश्वरो (Bhatt. prāṇe)
यच् च प्राणति यच् च न ॥