०२०

सर्वाष् टीकाः ...{Loading}...

०१ केवलीन्द्राय दुदुहे हि

विश्वास-प्रस्तुतिः ...{Loading}...

केवलीन्द्राय दुदुहे हि गृष्टिर्
वशं पीयूषं प्रथमं दुहाना ।
अथातर्पयच् चतुरश् चतुर्धा
देवान् मनुष्याꣳ असुरान् उतर्षीन् ॥

०२ अष्टेन्द्रस्य षड् यमस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अष्टेन्द्रस्य षड् यमस्य
ऋषीणां सप्त सप्तधा ।
अपो मनुष्यान् ओषधीस्
तान् उ पञ्चानु सेचिरे ॥

०३ को नु गौः

विश्वास-प्रस्तुतिः ...{Loading}...

को नु गौः क एकर्षिः
किम् उ साम का आशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुः कतमो नु सः ॥

०४ एको गौर् एक

विश्वास-प्रस्तुतिः ...{Loading}...

एको गौर् एक एकर्षिर्
एकं सामैकधाशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुर् नाति रिच्यते ॥