०१८

सर्वाष् टीकाः ...{Loading}...

०१ कुतस् तौ जातौ

विश्वास-प्रस्तुतिः ...{Loading}...

कुतस् तौ जातौ कतमः सो अर्धः
कस्माल् लोकात् कतरस्याः पृथिव्याः ।
वत्सौ विराजः सलिलाद् उदैतां
तौ त्वा पृच्छामि कतरेण दुग्धा ॥ (Bhatt. taṃ tvā, drugdhā)

०२ यो ऽक्रन्दयत् सलिलम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽक्रन्दयत् सलिलं महित्वा (Bhatt. yokrandayat)
योनिं कृत्वा त्रिभुजं शयानम् । (Bhatt. śayānā)
वत्सः कामदुघो विराजो
गुहा चक्रे तन्वः पराचीः ॥

०३ यानि चत्वारि बृहन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यानि चत्वारि बृहन्ति
येषां चतुर्थं वियुनक्ति वाचम् ।
ब्रह्मैनद् विद्यात् तपसा विपश्चिद्
यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥

०४ बृहतः परि सामानि

विश्वास-प्रस्तुतिः ...{Loading}...

बृहतः परि सामानि
षष्ठात् पञ्चाधि निर्मिता ।
बृहद् बृहत्या निर्मितं
कुतो ऽधि बृहती मिता ॥ (Bhatt. kutodhi)

०५ बृहती परि मात्राया

विश्वास-प्रस्तुतिः ...{Loading}...

बृहती परि मात्राया
मातुर् मात्राधि निर्मिता ।
माया हि जज्ञे मायाया
मायाया मातली परि ॥

०६ वैश्वानरस्य प्रतिमोपरि द्यौर्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरस्य प्रतिमोपरि द्यौर्
यावद् रोदसी विबबाधे अग्निः ।
ततः षष्ठाद् आमुतो यन्ति स्तोमा
उद् इतो यन्त्य् अभि षष्ठम् अह्नः ॥

०७ षट् ट्वा पृच्छाम

विश्वास-प्रस्तुतिः ...{Loading}...

षट् ट्वा पृच्छाम ऋषयः कश्यपेदं
त्वं हि युक्तं युयुक्षे योग्यं च ।
विराजम् आहुर् ब्रह्मणः पितरं
तां नो वि धेह्य् ऋतुथा सखिभ्यः ॥ (Bhatt. ṛtathā)

०८ यां प्रच्युताम् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

यां प्रच्युताम् अनु यज्ञाः प्रच्युवन्त
उपतिष्ठन्त उपतिष्ठमानाम् ।
तस्या व्रजे प्रसवे यक्षम् एजति
सा विराड् ऋषयः परमे व्योमन् ॥

०९ अप्राणैति प्राणेन प्राणतीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अप्राणैति प्राणेन प्राणतीनां
विराट् स्वराजम् अभ्य् एति पश्चात् ।
विश्वं मृशन्तीम् अभिरूपां विराजं (Bhatt. mṛṣantīm)
पश्यन्ति त्वे न त्वे पश्यन्त्य् एनाम् ॥

१० को विराजो मिथुनत्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

को विराजो मिथुनत्वं प्र वेद
क ऋतून् क उ कल्पम् अस्याः ।
क्रमान् को अस्या बहुधा विदुग्धान्
को अस्या धाम कतिधा व्युष्टीः ॥