०१७

सर्वाष् टीकाः ...{Loading}...

०१ ओषधीनाम् अहं वृण

विश्वास-प्रस्तुतिः ...{Loading}...

ओषधीनाम् अहं वृण
उर्वरीर् इव साधुया ।
नयाम्य् अर्वतीर् इव-
-अहे निर् ऐतु ते विषम् ॥

०२ यद् अग्नौ सूर्ये

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अग्नौ सूर्ये विषं
पृथिव्याम् ओषधीषु यत् ।
कान्दाविषं कनिक्लकं +++(Bhatt. kaniklaka)+++
निर् ऐत्व् ऐतु ते वहिः ॥

०३ अङ्गादङ्गात् प्र च्यावय

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गादङ्गात् प्र च्यावय
हृदयं परि वर्जय ।
अधा विषस्य यत् तेजो
अवाचीनं तद् एतु ते ॥

०४ अग्ने त्रायस्व विमदम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने त्रायस्व विमदं नयेमं
पुनर् धेहि जीवसे जातवेदः ।
मा ते हेडांसि दुरिताव गन्म
माहिर् वधीद् विषतः पुरुषं नः ॥ +++(Bhatt. viṣitaḥ)+++

०५ ये अग्निजा ओषधिजा

विश्वास-प्रस्तुतिः ...{Loading}...

ये अग्निजा ओषधिजा अहीनां
ये अभ्रजा विद्युत आ बभूवुः ।
तेषां जातानि बहुधा बहूनि +++(Bhatt. vahudhā)+++
तेभ्यः सर्पेभ्यो नमसा विधेम ॥ +++(Bhatt. sarvebhyo)+++

०६ तौदी नामासि कन्या

विश्वास-प्रस्तुतिः ...{Loading}...

तौदी नामासि कन्या
घृताची नाम वा असि ।
अधस्पदेन ते पदोर्
आ ददे विषदूषणम् ॥

०७ आरे अभूद् विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

आरे अभूद् विषम् अरौद्
विषे विषम् अप्राग् अपि ।
अग्निर् अहेर् निर् अधाग् विषं सोमो निर् अणयीत् । +++(Bhatt. aṇait)+++
दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥ +++(Bhatt. daṃṣṭrāramanagād)+++