०१६

सर्वाष् टीकाः ...{Loading}...

०१ पैद्वस्य मन्महे वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

पैद्वस्य मन्महे वयं
स्थिरस्य स्थिरधाम्नः ।
इमे पश्चात् पृदाकवः +++(Bhatt. pradākavaḥ)+++
प्रदीध्यत आसते ॥ +++(Bhatt. pratīdhyata)+++

०२ नष्टासवो नष्टविषा हता

विश्वास-प्रस्तुतिः ...{Loading}...

नष्टासवो नष्टविषा
हता इन्द्रेण वज्रिणा ।
जघानेन्द्रो जघ्निमा वयम् ॥

०३ हतास् तिरश्चिराजयो निपिष्टासः

विश्वास-प्रस्तुतिः ...{Loading}...

हतास् तिरश्चिराजयो
निपिष्टासः पृदाकवः ।
दर्विं करिक्रतं श्वित्रं +++(Bhatt. ścitraṃ)+++
दर्भेष्व् असितं जहि ॥

०४ कैरातिका कुमारिका सखा

विश्वास-प्रस्तुतिः ...{Loading}...

कैरातिका कुमारिका
सखा खनति भेषजम् ।
हिरण्ययीभिर् अभ्रिभिर्
गिरीणाम् उप सानुषु ॥

०५ आयम् अगन् युवा

विश्वास-प्रस्तुतिः ...{Loading}...

आयम् अगन् युवा भिषक्
पृश्निहापराजितः ।
स वै स्वजस्य जम्भन
उभयोर् वृश्चिकस्य च ॥

०६ इन्द्रो मे ऽहीन्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मे ऽहीन् अजम्भयन् +++(Bhatt. mehīn)+++
मित्रश् च वरुणश् च ।
वातापर्जन्योभा ॥

०७ पैद्वो मे ऽहीन्

विश्वास-प्रस्तुतिः ...{Loading}...

पैद्वो मे ऽहीन् अजम्भयत् +++(Bhatt. mehīn)+++
पृदाकूंश् च पृदाक्वः । +++(Bhatt. pradākūṃś ca pradākvaḥ)+++
स्वजान् तिरश्चिराजीन्
कसर्णीलान् दशोनशीन् ॥ +++(Bhatt. kaśarṇīlān daśodaśīn)+++

०८ इन्द्रो जघान प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो जघान प्रथमो
जनितारम् अहे तव ।
तेषां वस् तृह्यमाणानां
कः स्वित् तेषाम् असद् रसः ॥ +++(Bhatt. kasyuteṣām)+++

०९ सं हि शीर्षाण्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सं हि शीर्षाण्य् अग्रभं
पौञ्जिष्ट इव कर्वरम् । +++(Bhatt. pauñjaṣṭa)+++
सिन्धोर् मध्यं परेत्य
व्य् अनिजम् अहेर् विषम् ॥

१० अहीनां सर्वेषां विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहीनां सर्वेषां विषं
परा वहन्तु सिन्धवः ।
हतास् तिरश्चिराजयो
निपिष्टासः पृदाकवः ॥ +++(Bhatt. pradākavaḥ)+++