सर्वाष् टीकाः ...{Loading}...
०१ तस्यामृतस्येमं बलं पुरुषम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्यामृतस्येमं बलं
पुरुषं पारयामसि ।
अथो कृणोमि भेषजं
यथासच् छतहायनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्यामृतस्येमं बलं
पुरुषं पारयामसि ।
अथो कृणोमि भेषजं
यथासच् छतहायनः ॥
सर्वाष् टीकाः ...{Loading}...
०२ वराहो वेद वीरुधम्
विश्वास-प्रस्तुतिः ...{Loading}...
वराहो वेद वीरुधं
नकुलो वेद भेषजीः ।
गन्धर्वाः सर्पा या विदुस्
ता इहा यन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वराहो वेद वीरुधं
नकुलो वेद भेषजीः ।
गन्धर्वाः सर्पा या विदुस्
ता इहा यन्त्व् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०३ याः सुपर्णा आङ्गिरसीर्
विश्वास-प्रस्तुतिः ...{Loading}...
याः सुपर्णा आङ्गिरसीर्
दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्
याश् च सर्वे पतत्रिणः ।
मृगा या विदुर् ओषधीस्
ता अस्मा अवसे हुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः सुपर्णा आङ्गिरसीर्
दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्
याश् च सर्वे पतत्रिणः ।
मृगा या विदुर् ओषधीस्
ता अस्मा अवसे हुवे ॥
सर्वाष् टीकाः ...{Loading}...
०४ यावतीनाम् ओषधीनां गावः
विश्वास-प्रस्तुतिः ...{Loading}...
यावतीनाम् ओषधीनां
गावः प्राश्नन्त्य् अघ्न्या
यावतीनाम् अजावयः ।
तावतीर् विश्वभेषजीर्
आ भरामि त्वाम् अभि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावतीनाम् ओषधीनां
गावः प्राश्नन्त्य् अघ्न्या
यावतीनाम् अजावयः ।
तावतीर् विश्वभेषजीर्
आ भरामि त्वाम् अभि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यावतीषु मनुष्या भेषजम्
विश्वास-प्रस्तुतिः ...{Loading}...
यावतीषु मनुष्या
भेषजं भिषजो विदुः ।
तावतीस् तुभ्यम् आभृताः
शर्म यच्छन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावतीषु मनुष्या
भेषजं भिषजो विदुः ।
तावतीस् तुभ्यम् आभृताः
शर्म यच्छन्त्व् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०६ पुष्पवतीः प्रसूमतीः फलिनीर्
विश्वास-प्रस्तुतिः ...{Loading}...
पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
संमातर इव दुह्राम्
अस्मा अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
संमातर इव दुह्राम्
अस्मा अरिष्टतातये ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत् त्वाहार्षं पञ्चशलाद्
विश्वास-प्रस्तुतिः ...{Loading}...
उत् त्वाहार्षं पञ्चशलाद्
उत् त्वा दशशलाद् उत ।
उत् त्वा यमस्य पड्वीशाद्
ओषधीभिर् अपीपरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् त्वाहार्षं पञ्चशलाद्
उत् त्वा दशशलाद् उत ।
उत् त्वा यमस्य पड्वीशाद्
ओषधीभिर् अपीपरम् ॥