सर्वाष् टीकाः ...{Loading}...
०१ या बभ्रवो याश्
विश्वास-प्रस्तुतिः ...{Loading}...
या बभ्रवो याश् च शुक्रा
रोहिणीर् उत पृश्नयः ।
असिक्नीः कृष्णा ओषधीः
सर्वा अच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या बभ्रवो याश् च शुक्रा
रोहिणीर् उत पृश्नयः ।
असिक्नीः कृष्णा ओषधीः
सर्वा अच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्रायन्ताम् इमं पुरुषम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रायन्ताम् इमं पुरुषं
यक्ष्माद् देवेषिताद् अधि ।
यासां द्यौष् पिता पृथिवी माता
समुद्रो मूलं वीरुधां बभूव ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रायन्ताम् इमं पुरुषं
यक्ष्माद् देवेषिताद् अधि ।
यासां द्यौष् पिता पृथिवी माता
समुद्रो मूलं वीरुधां बभूव ॥
सर्वाष् टीकाः ...{Loading}...
०३ आपो ऽग्रं दिव्या
विश्वास-प्रस्तुतिः ...{Loading}...
आपो ऽग्रं दिव्या ओषधयस् ।
तास् ते यक्ष्मम् एनस्यम्
अङ्गादङ्गाद् अनीनशन् ॥ (Bhatt. anīnaśaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
आपो ऽग्रं दिव्या ओषधयस् ।
तास् ते यक्ष्मम् एनस्यम्
अङ्गादङ्गाद् अनीनशन् ॥ (Bhatt. anīnaśaṃ)
सर्वाष् टीकाः ...{Loading}...
०४ प्रस्तृणती स्तम्बिनीर् एकशृङ्गाः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रस्तृणती स्तम्बिनीर् एकशृङ्गाः
प्रतन्वतीर् ओषधीर् आ वदामि ।
अंशुमतीः काण्डिनीर् या विशाखा
ह्वयामि ते वीरुधो वैश्वदेवीर्
उग्राः पुरुषजीवनीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रस्तृणती स्तम्बिनीर् एकशृङ्गाः
प्रतन्वतीर् ओषधीर् आ वदामि ।
अंशुमतीः काण्डिनीर् या विशाखा
ह्वयामि ते वीरुधो वैश्वदेवीर्
उग्राः पुरुषजीवनीः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् वः सहः
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वः सहः सहमाना
वीर्यं यच् च वो बलम् ।
तेनेमम् अस्माद् यक्ष्मात्
पुरुषं मुञ्चन्तौषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वः सहः सहमाना
वीर्यं यच् च वो बलम् ।
तेनेमम् अस्माद् यक्ष्मात्
पुरुषं मुञ्चन्तौषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०६ जीवलां नघारिषां जीवन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
जीवलां नघारिषां
जीवन्तीम् ओषधीम् उत ।
अरुन्धतीम् उन्नयन्तीं
पुष्पां मधुमतीं हुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीवलां नघारिषां
जीवन्तीम् ओषधीम् उत ।
अरुन्धतीम् उन्नयन्तीं
पुष्पां मधुमतीं हुवे ॥
सर्वाष् टीकाः ...{Loading}...
०७ इहा यन्तु प्रचेतसो
विश्वास-प्रस्तुतिः ...{Loading}...
इहा यन्तु प्रचेतसो
मेदिनीर् वचसो मम ।
यथेमं पारयामसि
पुरुषं दुरिताद् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहा यन्तु प्रचेतसो
मेदिनीर् वचसो मम ।
यथेमं पारयामसि
पुरुषं दुरिताद् अधि ॥
सर्वाष् टीकाः ...{Loading}...
०८ अग्नेर् घासो अपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नेर् घासो अपां गर्भो
या रोहन्ति पुनर्णवाः । (Bhatt. punarnavāḥ)
ध्रुवाः सहस्रनाम्नीर्
भेषजीः सन्त्व् आभृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नेर् घासो अपां गर्भो
या रोहन्ति पुनर्णवाः । (Bhatt. punarnavāḥ)
ध्रुवाः सहस्रनाम्नीर्
भेषजीः सन्त्व् आभृताः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अवकोल्वा उदकात्मान ओषधयः
विश्वास-प्रस्तुतिः ...{Loading}...
अवकोल्वा उदकात्मान ओषधयः ।
व्यजृषन्ती दुरितं तीक्ष्णशृङ्ग्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवकोल्वा उदकात्मान ओषधयः ।
व्यजृषन्ती दुरितं तीक्ष्णशृङ्ग्यः ॥
सर्वाष् टीकाः ...{Loading}...
१० उन्मुञ्चन्तीर् विवरुणा उग्रा
विश्वास-प्रस्तुतिः ...{Loading}...
उन्मुञ्चन्तीर् विवरुणा
उग्रा या विषदूषनीर्
अथो बलासनाशनीः ।
रक्षोनाशनीः कृत्यादूषणीश् च
यास् ता इहा यन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उन्मुञ्चन्तीर् विवरुणा
उग्रा या विषदूषनीर्
अथो बलासनाशनीः ।
रक्षोनाशनीः कृत्यादूषणीश् च
यास् ता इहा यन्त्व् ओषधीः ॥