०११

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रो यातूनाम् अभवत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो यातूनाम् अभवत् पराशरो
हविर्मथीनाम् अभ्य् आविवासताम् ।
अभीद् उ शक्रः परशुर्
यथा वनं पात्रेव
भिन्दन्त् सत एति रक्षसः ॥

०२ उलूकयातुं शुशुलूकयातुं जहि

विश्वास-प्रस्तुतिः ...{Loading}...

उलूकयातुं शुशुलूकयातुं
जहि श्वयातुम् उत कोकयातुम् ।
सुपर्णयातुम् उत गृध्रयातुं
दृषदेव प्र मृण रक्ष इन्द्र ॥

०३ मा नो रक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो रक्षो अभि नड् यातुमावताम्
अपोच्छतं मिथुना या किमीदिना ।
पृथिवी नः पार्थिवात् पात्व् अंहसो
अन्तरिक्षं दिव्यात् पात्व् अस्मान् ॥

०४ इन्द्र जहि पुमांसम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र जहि पुमांसं यातुधानम्
उत स्त्रियं मायया शाशदानाम् । +++(Bhatt. śāsadānām)+++
विग्रीवासो मूरदेवा रुदन्तु
मा ते दृशन् सूर्यम् उच्चरन्तम् ॥

०५ प्रति चक्ष्व वि

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति चक्ष्व वि चक्ष्व-
-इन्द्रश् च सोम जागृतम् ।
रक्षोभ्यो वधम् अस्यतम्
अशनिं यातुमद्भ्यः ॥