०१०

सर्वाष् टीकाः ...{Loading}...

०१ परः सो अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

परः सो अस्तु तन्वा तना च
तिस्रः पृथिवीर् अधो अस्तु विश्वाः ।
प्रति शुष्यति यशो अस्य देवा
यो मा दिवा दिप्सति यश् च नक्तम् ॥

०२ सुविज्ञानं चिकितुषे जनाय

विश्वास-प्रस्तुतिः ...{Loading}...

सुविज्ञानं चिकितुषे जनाय
सच् चासच् च वचसी पस्पृशाते ।
तयोर् यत् सत्यं यतरद् ऋजीयस्
तद् इत् सोमो ऽवति हन्त्य् आसत् ॥

०३ न वा उ

विश्वास-प्रस्तुतिः ...{Loading}...

न वा उ सोमो वृजिनं हिनोति
न क्षत्रियं मिथुया धारयन्तम् ।
हन्ति रक्षो हन्त्य् आसद् वदन्तम्
उभाव् इन्द्रस्य प्रसितौ शयाते ॥

०४ यदि वाहम् अनृतदेवो

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वाहम् अनृतदेवो अस्मि
मोघं वा देवाꣳ अप्यूहे अग्ने ।
किम् अस्मभ्यं जातवेदो हृणीषे
द्रोघवाचस् ते निरृथं सचन्ताम् ॥

०५ अद्या मुरीय यदि

विश्वास-प्रस्तुतिः ...{Loading}...

अद्या मुरीय यदि यातुधानो अस्मि
यदि वायुस् ततप पूरुषस्य । (Bhatt. tadapa)
अधा स वीरैर् दशभिर् वि यूया
यो मा मोघं यातुधानेत्य् अह ॥

०६ यो मायातुं यातुधानेत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मायातुं यातुधानेत्य् आह
यो मा रक्षाः शुचिर् अस्मीत्य् आह ।
इन्द्रस् तं हन्तु महता वधेन
विश्वस्य जन्तोर् अधमस् पदीष्ट ॥

०७ प्र या जिगाति

विश्वास-प्रस्तुतिः ...{Loading}...

प्र या जिगाति खर्गलेव नक्तम्
अप द्रुहुस् तन्वं गूहमाना ।
वव्राꣳ अनन्ताꣳ अव सा पदीष्ट
ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥

०८ वि तिष्ठध्वं मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

वि तिष्ठध्वं मरुतो विक्ष्व् इच्छत (Bhatt. vikṣvītsata)
गृभायत रक्षसः सं पिनष्टन ।
वयो ये भूत्वा पतयन्ति नक्तभिर्
ये वा रिपो दधिरे देवे अध्वरे ॥

०९ एत उ त्ये

विश्वास-प्रस्तुतिः ...{Loading}...

एत उ त्ये पतयन्ति श्वयातव
इन्द्रं दिप्सन्ति दिप्सवो ऽदाभ्यम् । (Bhatt. dipsavodābhyam)
शिशीते शक्रः पिशुनेभ्यो वधं
नूनं सृजद् अशनिं यातुमद्भ्यः ॥

१० प्र वर्तय दिवो

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वर्तय दिवो अश्मानम्
इन्द्र सोमशितं मघवन् सं शिशाधि ।
प्राक्तो अपाक्तो अधराद् उदक्तो
अभि जहि रक्षसः पर्वतेन ॥ (Bhatt. ‘bhi)