००८

सर्वाष् टीकाः ...{Loading}...

०१ तद् अग्ने चक्षुः

विश्वास-प्रस्तुतिः ...{Loading}...

तद् अग्ने चक्षुः प्रति धेहि
रेभे शफारुजं येन पश्यसि यातुधानम् ।
अथर्ववज् ज्योतिषा दैव्येन [भत्त्। अथर्वव(ज्)
सत्यं धूर्वन्तम् अचितं न्य् ओष ॥ (Bhatt. oṣaḥ)

०२ परि त्वाग्ने पुरम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वाग्ने पुरं वयं
विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे
हन्तारं भङ्गुरावताम् ॥

०३ वि ज्योतिषा बृहता

विश्वास-प्रस्तुतिः ...{Loading}...

वि ज्योतिषा बृहता भात्य् अग्निर्
आविर् विश्वानि कृणुते महित्वा ।
प्रादेवीर् मायाः सहते दुरेवाः
शिशीते शृङ्गे रक्षसे विनिक्षे ॥

०४ अग्नी रक्षांसि सेधति

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नी रक्षांसि सेधति
शुक्रशोचिर् अमर्त्यः ।
शुचिः पावक ईड्यः ॥

०५ अग्ने रक्षा णो

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने रक्षा णो अंहसः
प्रति ष्म देव रीषतः ।
तपिष्ठैर् अजरो दह ॥

०६ ये ते शृङ्गे

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते शृङ्गे अजरे जातवेदस्
तिग्मशोची ब्रह्मसंशिते ।
ताभ्यां दुर्हार्दम् अभिदासन्तं किमीदिनं
प्रत्यञ्चं यातुधानं जातवेदो वि निक्ष्व ॥

०७ विषेण भङ्गुरावतः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

विषेण भङ्गुरावतः
सम् इन्द्र रक्षसो दह ।
अग्ने शुक्रेण शोचिषा
तपुरग्रेभिर् अर्चिभिः ॥

०८ प्रत्य् अग्ने मिथुना

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्य् अग्ने मिथुना दह
यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्य्
अदब्धं विप्र मन्मभिः ॥

०९ प्रत्य् अग्ने हरसा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्य् अग्ने हरसा हरः
शृणीहि विश्वतः प्रति ।
यातुधानस्य रक्षसो
बलं वि रुज वीर्यम् ॥

१० सादान्वेयं प्र मृण

विश्वास-प्रस्तुतिः ...{Loading}...

सादान्वेयं प्र मृण रक्ष इन्द्र (Bhatt. sādānveyāḥ)
यातुधानक्षयणैर् मूरैः ।
एताव् अग्ने मिथुना यातुधाना
विष्वञ्चौ म्रुक्तौ हरसा शयाताम् ॥ (Bhatt. uktau)

११ बृहस्पतिर् नः परि

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिर् नः परि पातु पश्चाद्
उतोत्तरस्माद् अधराद् अघायोः ।
इन्द्रः पुरस्ताद् उत मध्यतो नः
सखा सखिभ्यो वरीयः कृणोतु ॥