००७

सर्वाष् टीकाः ...{Loading}...

०१ त्रिर् यातुधानः प्रसितिम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिर् यातुधानः प्रसितिं त एत्व्
ऋतं यो अग्ने अनृतेन हन्ति ।
तम् अर्चिषा स्फूर्जयञ् जातवेदः
समक्षम् एनं गृणते नि वृङ्धि ॥

०२ यद् अग्ने अद्य

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अग्ने अद्य मिथुना शपातो
यद् वाचस् तृष्टं जनयन्त रेभाः ।
मन्योर् मनसः शरव्या जायते
या तया विध्य हृदये यातुधानान् ॥

०३ परा शृणीहि तपसा

विश्वास-प्रस्तुतिः ...{Loading}...

परा शृणीहि तपसा यातुधानान्
पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवाञ् छृणीहि
परासुतृपः शोशुचतः शृणीहि ॥

०४ पराद्य देवा वृजिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

पराद्य देवा वृजिनं शृणन्तु
प्रत्यग् एनं शपथा यन्तु सृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन्
विश्वयैतु प्रसितिं यातुधानः ॥

०५ सनाद् अग्ने मृणसि

विश्वास-प्रस्तुतिः ...{Loading}...

सनाद् अग्ने मृणसि यातुधानान्
न त्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान् क्रव्यादो
मा ते हेत्या मुक्षत दैव्यायाः ॥

०६ यः पौरुषेयेण क्रविषा

विश्वास-प्रस्तुतिः ...{Loading}...

यः पौरुषेयेण क्रविषा समङ्क्ते
यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरम् अग्ने
तेषां शीर्षाणि हरसापि वृश्च ॥

०७ संवत्सरीणं पय उस्रियायास्

विश्वास-प्रस्तुतिः ...{Loading}...

संवत्सरीणं पय उस्रियायास्
तस्य मासीद् यातुधानो नृचक्षः । +++(corr. māśīd)+++
पीयूषम् अग्ने यतमस् तितृप्सात्
तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥

०८ विषं गवां यातुधानाः

विश्वास-प्रस्तुतिः ...{Loading}...

विषं गवां यातुधानाः पिबन्त्व्
आ वृश्चन्ताम् अदितये दुरेवाः ।
परैणान् देवः सविता ददातु +++(Bhatt. paraiṇāṃ)+++
परा भागम् ओषधीनां जयन्ताम् ॥

०९ त्वं नो अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो अग्ने अधराद् उदक्तस्
त्वं पश्चाद् उत रक्षा पुरस्तात् ।
प्रति त्ये ते अजरासस् तपिष्ठा +++(Bhatt. te te)+++
अघशंसं शोशुचतो दहन्तु ॥

१० पश्चात् पुरस्ताद् अधराद्

विश्वास-प्रस्तुतिः ...{Loading}...

पश्चात् पुरस्ताद् अधराद् उदक्तः
कविः काव्येन परि पाह्य् अग्ने ।
सखा सखायम् अजरो जरिम्णे
अग्ने मर्त्याँ अमर्त्यस् त्वं नः ॥ +++(Bhatt. gne)+++