सर्वाष् टीकाः ...{Loading}...
०१ रक्षोहणं वाजिनम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
रक्षोहणं वाजिनम् आ जिघर्मि
मित्रं प्रथिष्ठम् उप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः
स नो दिवा स रिषः पातु नक्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रक्षोहणं वाजिनम् आ जिघर्मि
मित्रं प्रथिष्ठम् उप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः
स नो दिवा स रिषः पातु नक्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अयोदंष्ट्रान् अर्चिषा वावृधानान्
विश्वास-प्रस्तुतिः ...{Loading}...
अयोदंष्ट्रान् अर्चिषा वावृधानान्
उप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान् रभस्व
क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयोदंष्ट्रान् अर्चिषा वावृधानान्
उप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान् रभस्व
क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उभोभयाविन्न् उप देहि
विश्वास-प्रस्तुतिः ...{Loading}...
उभोभयाविन्न् उप देहि दंष्ट्रा
हिंस्रः शिशानो ऽवरं परं च । +++(Bhatt. śiśānovaraṃ)+++
उतान्तरिक्षे परि याह्य् अग्ने
जम्भैः सं धेह्य् अभि यातुधानान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उभोभयाविन्न् उप देहि दंष्ट्रा
हिंस्रः शिशानो ऽवरं परं च । +++(Bhatt. śiśānovaraṃ)+++
उतान्तरिक्षे परि याह्य् अग्ने
जम्भैः सं धेह्य् अभि यातुधानान् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अग्ने त्वचं यातुधानस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने त्वचं यातुधानस्य भिन्धि
हिंस्राशनिर् हरसा हन्त्व् एनम् ।
प्र पर्वाणि जातवेदः शृणीहि
क्रव्यात् क्रविष्णुर् वि चिनोत्य् एनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने त्वचं यातुधानस्य भिन्धि
हिंस्राशनिर् हरसा हन्त्व् एनम् ।
प्र पर्वाणि जातवेदः शृणीहि
क्रव्यात् क्रविष्णुर् वि चिनोत्य् एनम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यज्ञैर् इषूः सन्नममानो
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञैर् इषूः संनममानो अग्ने
वाचा शल्याँ अशनिभिर् दिहानः ।
ताभिर् विध्य हृदये यातुधानान्
प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञैर् इषूः संनममानो अग्ने
वाचा शल्याँ अशनिभिर् दिहानः ।
ताभिर् विध्य हृदये यातुधानान्
प्रतीचो बाहून् प्रति भङ्ध्य् एषाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यत्रेदानीं पश्यसि जातवेदस्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रेदानीं पश्यसि जातवेदस्
तिष्ठन्तम् अग्न उत वा चरन्तम् ।
उतान्तरिक्षे पतन्तं यातुधानं
तमसा विध्य सर्वा शिशानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रेदानीं पश्यसि जातवेदस्
तिष्ठन्तम् अग्न उत वा चरन्तम् ।
उतान्तरिक्षे पतन्तं यातुधानं
तमसा विध्य सर्वा शिशानः ॥
सर्वाष् टीकाः ...{Loading}...
०७ उतारब्धाच् छृणीहि जातवेद
विश्वास-प्रस्तुतिः ...{Loading}...
उतारब्धाच् छृणीहि जातवेद
उतारेभाणाद् ऋष्टिभिर् यातुधानात् ।
अग्ने पूर्वो नि जहि शोशुचान
आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतारब्धाच् छृणीहि जातवेद
उतारेभाणाद् ऋष्टिभिर् यातुधानात् ।
अग्ने पूर्वो नि जहि शोशुचान
आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥
सर्वाष् टीकाः ...{Loading}...
०८ इह प्र ब्रूहि
विश्वास-प्रस्तुतिः ...{Loading}...
इह प्र ब्रूहि यतमः सो अग्ने
यो यातुधानो य इदं शृणोति ।
तम् आ रभस्व समिधा यविष्ठ
नृचक्षसश् चक्षुषे रन्धयैतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह प्र ब्रूहि यतमः सो अग्ने
यो यातुधानो य इदं शृणोति ।
तम् आ रभस्व समिधा यविष्ठ
नृचक्षसश् चक्षुषे रन्धयैतम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ तीक्ष्णेनाग्ने चक्षुषा रक्ष
विश्वास-प्रस्तुतिः ...{Loading}...
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं
प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्य् अभि शोशुचानं
मा त्वा दभन् यातुधाना नृचक्षः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं
प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्य् अभि शोशुचानं
मा त्वा दभन् यातुधाना नृचक्षः ॥
सर्वाष् टीकाः ...{Loading}...
१० नृचक्षा रक्षः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
नृचक्षा रक्षः प्रति पश्य विक्षु
तस्य त्रीणि प्रति शृणीह्य् अग्रा ।
तस्याग्ने पृष्टीर् हरसा शृणीहि
त्रेधा मूलं यातुधानस्य वृश्च ॥
मूलम् ...{Loading}...
मूलम् (GR)
नृचक्षा रक्षः प्रति पश्य विक्षु
तस्य त्रीणि प्रति शृणीह्य् अग्रा ।
तस्याग्ने पृष्टीर् हरसा शृणीहि
त्रेधा मूलं यातुधानस्य वृश्च ॥