००५

सर्वाष् टीकाः ...{Loading}...

०१ शतं ते ऽयुतम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं ते ऽयुतं हायना (Bhatt. teyutam)
द्वे युगे त्रीणि चत्वारि सन्तु ।
इन्द्राग्नी विश्वे देवा
अनु मन्यन्ताम् अहृणीयमानाः ॥

०२ शरदे त्वा हेमन्ताय

विश्वास-प्रस्तुतिः ...{Loading}...

शरदे त्वा हेमन्ताय वसन्ताय
ग्रिष्माय परि दध्मसि ।
वर्षाणि तुभ्यं स्योनानि
येषु वर्धन्त ओषधीः ॥

०३ मृत्युर् ईशे द्विपदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्युर् ईशे द्विपदां
मृत्युर् ईशे चतुष्पदाम् ।
तस्मात् त्वा मृत्योर् गोपतेर्
उद् धरामि स मा मृथाः ॥

०४ सो ऽरिष्ट न

विश्वास-प्रस्तुतिः ...{Loading}...

सो ऽरिष्ट न मरिष्यसि (Bhatt. soriṣṭa)
न मरिष्यसि मा बिभेः ।
न वै तत्र प्र मीयन्ते
नो यन्त्य् अधरं रजः ॥

०५ सर्वो वै तत्र

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वो वै तत्र जीवति
गौर् अश्वः पुरुषः पशुः ।
यत्रेदं ब्रह्म क्रियते (Bhatt. krīyate)
परिधिर् जीवनाय कम् ॥

०६ परि त्वा पातु

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वा पातु समानेभ्यो
ऽभिचारात् सबन्धुभ्यः ।
अमम्रिर् भवामृतो ऽतिजीवो (thus with ŚS; Bhatt. yamaṃmir, tajīvo)
मा ते हासिषुर् असवः शरीरम् ॥

०७ विश्वे त्वा देवा

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे त्वा देवा अमृतेन बिभ्रत्व्
अधिवक्ता पशुपतिष् टे अस्तु ।
अनामयत् सविता ते कृणोत्व्
आ त्वा प्राणो विशतु जीवनाय ॥

०८ ये मृत्यव एकशतम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये मृत्यव एकशतं
या नाष्ट्रातिजीव्या ।
मुञ्चन्तु तस्मात् त्वा देवा
अग्नेर् वैश्वानराद् अधि ॥